सुषमा मध्यमा शेया चत्वारो ये नपुंसकाः ॥७॥
विना खरैस्तु नान्येषां जायते व्यक्तिरच्चसा ।
शिवशक्तिमयान् प्राहस्तलाइर्णान्मनीषिणः ॥ ८॥
कारणात् पञ्चभूतानामुद्भूता माढकायतः ।
ततो भूतात्मका वर्णाः पञ्च पञ्च विभागतः ॥ ९ ॥
वाग्निभूजलाकाशाः पञ्चाशलिपयः क्रमात् ।
पच खाः पञ्च दीर्घा विन्दन्ताः सन्धिसम्भवः ॥ १० ॥
पञ्चशः कादयः यचलमहान्ताः समीरिताः ।
सोमसूर्याग्निभेदेन माढकावर्णसम्भवाः ॥ ११ ॥
अष्टविंशत्कलास्तत्तनमण्डलेषु व्यवस्थिताः ।
अमृता मानदा पूषा तुष्टिः पुष्टौरतिर्धृतिः ॥ १२ ॥
शशिनी चन्द्रिका कान्तिज्योत्सा श्रोः प्रीतिदा ।
पूर्णा पूर्णामृता कामदायिन्धः स्वरजाः कलाः ॥ १३ ॥
तपिनी तापिनी धूम्रा मरीचिर्णालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ १४ ॥
कभावा वसुदाः सौराः उडान्ता हादशेरिताः ।
धूमार्चिरा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥ १५ ६
सुश्री सुरूपा कपिला हव्यकव्यवहा अपि ।
यादीनां दशवर्णानां कला धर्मप्रदा इमाः ॥ १६ ॥
अभवेष्टा करा. होषाः श्वेतपीतारुणाः क्रमात् ।
तारस्य पञ्चभेदेभ्यः पञ्चाशद्दर्षगाः कलाः ॥ १७ ॥
सृष्टिऋषिः स्मृतिर्मेधा कान्तिर्लक्ष्मी धृतिः स्थिरा ।
स्थिति: सिद्धिरिति मोक्ताः कचवर्गकलाः क्रमात् ॥ १८ ॥
अकाराद ब्रह्मणोत्पन्नास्तप्तचामीकरप्रभाः ।
एताः करष्ट्रताचस्रक्पङ्कजद्दयकुण्डिकाः । १६
जया च पालिनी मान्तिरौश्वरी रतिकालिके ।
पृष्ठम्:Sarada tilaka tantra.pdf/१४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
द्वितीयः पाटलः ।