व्रणामेन सृजति कुण्डली वर्णमालिकाम् | ११२ ॥
अकारादिकारान्तां द्विचत्वारिंशदालिकाम् ||
पञ्चाशद्दारगुणितां पञ्चाशद्वर्णमालिकाम् ॥ ११३ ॥
सूते तद्दर्णतो भिन्नान् कलारुद्रादिकान् क्रमात् ।
निरोधिका भवेद्दरिर्खेन्दुः स्यानिशाकरः ॥ ११४ ॥
अर्कः स्यादुभयोर्योगो विन्दाला तेजसां निधिः ।
जाता वर्षा यतो विन्दो: शिवशक्तिमयादतः ॥ ११५ ॥
श्रग्निसोमात्मकास्ते स्युः शिवशक्तिमयाद्रवेः ।
येन सम्भवमापन्नाः सोमसूर्याग्निरूपिणः ॥ ११६ ॥
इति श्रोसारदातिल के सृष्टिविधानं नाम प्रथमः पटलः ।
द्वितीय: पटलः ।
॥
ततो व्यक्तिं प्रवच्यामि वर्णानां वदने नृणाम् ।
प्रेरिता मरता नित्य' सुषुम्नारन्धनिर्गताः ॥ १
कण्ठादिकरणैर्षर्णाः क्रमादाविर्भवन्ति ताः ।
एषु खराः स्मृताः सौम्याः स्पर्शाः सौरास्ततो दवाः ॥ २ ॥
श्रग्नेया व्यापकाः सर्वे सोमसूर्याग्निरूपिणः !
स्वराः षोड़श विख्याताः खर्शास्तं पञ्चविंशतिः ॥ ३ ॥
तत्त्वात्मानः स्मृताः स्पर्शा मकारः पुरुषो यतः ।
व्यापका दश ते कामधनधर्मप्रदायिनः ॥ ४ ॥
खः स्वरेषु पूर्वोक्तः परो दीर्घः क्रमादिमे ।
शिवशक्तिमयास्त स्युर्विन्दुर्गाव सानकाः ॥ ५ ॥
विन्दुः पुमान् रविः प्रोक्तः सर्गः शक्तिनिशाकरः ।
स्वराणां मध्यगं यत् तु चतुष्क' 'तनपुंसकम् ॥ ६ ॥
पिङ्गलायां स्थिता वा ईड़ायां सङ्गताः परे ।