सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
सारदातिलकम् ।

रक्तां विचित्रवसनां नवचन्द्रचूड़ा-
मनप्रदाननिरतां स्तनभारनम्बाम् ।
नृत्यन्तमिन्दुशकलाभरणां विलोक्य
हृष्टां भजे भगवती भवदु:खहन्त्रीम् ॥ १०८ ॥
यथाविधि जपेन्मन्यं वसुयुग्म सहस्रकम् ।
सान्येनावे न जुहुयाद्दशांशं तदनन्तरम् ॥ १०९ ॥
शक्तिपीठे यज बीमङ्गलोकेश्वरायुधैः ।
प्रातरेनं जपेद्मत्वं नित्यमष्टोत्तरं शतम् ॥ ११० ॥
तस्मादन्नसमृद्धिः स्याच्छ्रिया सह महीयसी ।
माया पद्मावतिपदं ततः पावकवल्लभा ॥ १११ ॥
सप्तार्णो मनुराख्यातः सर्ववश्य प्रदायकः ।
चङ्गानि मायया कला ध्यायेत् त्रैलोका मोहिनीम् ॥ ११२ ॥
पद्मासनस्थां करपङ्कजाभ्यां रक्तोत्पले सन्दधतौं त्रिनेत्राम् ।
चाविभ्नतीमाभरणानि रक्तां पद्मावती पद्ममुखीं नमामि ॥ ११३ ॥
पञ्चलक्षं जपेन्मन्त्र' दशांशर्जुहुयादनृतैः ।
शक्तिपीठे यर्ज दे वीमङ्गाद्यावरणान्विताम् ॥ ११४ ॥
किञ्जल्क वङ्गपूजा स्यात् पूज्याः पत्रषु मातरः ।
लोकपाला बहिः पूज्या स्तदखाणि ततो बहिः ॥ ११५ ॥
इत्यं यो भजते मन्त्र जपहोमार्चनादिभिः ।
सुभगः सर्वनारीणां भवेत् काम इवापरः ॥ ११६ ॥
षड़समध्ये प्रविलिख्य शक्ति' कोणेषु शिष्टानि षड़चराचिः।
तातो मायाभिवीतं पद्मावतीयत्वमिदं प्रशस्तम् ॥ ११७ ॥
तारं शिरसि विन्यस्येदेवीं सच्चिन्य भारतीम् ।
शक्तिवीज' न्यषेद्धाले संस्मृत्य भुवनेश्वरोम् ॥ ११८ ॥
अयसौ नेनयोन्य स्यात्वा सूट हताशनम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/१११&oldid=409492" इत्यस्माद् प्रतिप्राप्तम्