सामग्री पर जाएँ

पृष्ठम्:Sarada tilaka tantra.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
दशमः पटलः ।

लोकपालान् यजेदन्ते वाहनायुधसंयुतान् ॥ ७२ ॥
सिद्धमन्त्रो जपेन्मन्त्री सहस्रं शयने स्थितः ।
यां विचिन्त्य स्त्रियं रात्रौ सा समायाति तत्क्षणात् ॥ ७३ ॥
वाङ्मायानन्तरं भूयो नित्यक्लिने मदद्रवे !
डिठान्ती रवि संख्यार्णो मन्त्रो वश्यप्रदायकः ॥ ७४ ॥
अङ्गिराः स्यादृषिस्त्रिष्टुप्छन्दो मुनिभिरीरितम् ।
वज्रप्रस्तारिणो प्रोक्ता देवताभीष्टदायिनी ॥ ७५ ॥
वाग्भवेन षड़ङ्गानि विदध्यान्मन्त्रवित्तमः ।
वज्र प्रस्तारिणीं ध्यायेत् समाहितमनास्ततः ॥ ७६ ॥
रक्ताब्धौ रनपोते रविदलकमलाभ्यन्तरे सविषमां
cart रक्तमौलिस्फुरितशशिकलां स्मरवतां त्रिनेत्राम् ।
वीजापूरेशपाशाङ्कुशमदनधनुः सत्कपालानि हस्ते-
बिस्वाणामानताङ्गी स्वनभरनमितामम्बिकामाश्रयामः ॥ ७७ ॥
मन्त्रं मन्त्रो अपेल्लक्षं जपान्ते जुहुयात् पुनः ।
अमृतं राजहदोत्थैर्धृतमित्रैः समिद्दरैः ॥ ७८ ॥
शक्तिपीठे यजेद देवीमरुणैः कुसुमादिभिः ।
अङ्गानि केशरेषु स्युरर्चनीया दलेविमाः ॥ ७९ ॥
उल्लेखा क्रोदिनी क्लिन्ना चोभियो मदनातुरा |
निरञ्जना रागवतो सप्तमी मदनावती ॥ ८० ॥
मेखला द्राविणी पञ्चाद्वेगवत्यपरा स्मरा ।
कपालोत्पलधारिण्यः शक्तयो रक्तविग्रहाः ॥ ८१ ॥
मातरो दिग्विदिचर्चा: पुन: पूज्याः दिगौशराः ।
भजन् मन्त्रमनुं नित्यमर्चनादिभिरादरात् ॥ ८२ ॥
दरिद्रो रोगनिर्मुक्तः स जीवेच्छरदां शतम् ।
मिन् मन्त्रे ततो मन्त्री वशयेदखिलं जगत् ॥ ८३ ॥
नित्यामन्त्रैरधः कुर्यान्मुखचालनमन्वहम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Sarada_tilaka_tantra.pdf/१०८&oldid=409489" इत्यस्माद् प्रतिप्राप्तम्