पृष्ठम्:Rekha Ganita.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बिन्दुश्च केन्द्रसंज्ञः। केन्द्रोपरिगतं सुत्रमुभयतः पालिसंलग्न व्याससंशं स्मार्ते । व्यासस्तं वृत्तक्षेत्रस्य समानं भागद्वयं करोति । या रेखा केन्द्रगा स्याद्वै किं च पालिलमा स्यात् तदुभयतः खण्ड द्वं विषमं भवति सा रेखा चापकर्णसंज्ञा पूर्णज्यासंज्ञा च भवति । अथ सरलरेखाकृतीनि क्षेत्राण्युच्यन्ते तैत्रादौ त्रिभुजमुच्यते । तद्वै त्रिविधम् । एकं समत्रिबाहुकम् । द्वितीयं समद्विबाहुकम्। तृतीयं विषमत्रिबाहुकम् । /\NA पुनस्तत्करैरपि त्रिभुजं त्रिविधं भवति । तद्यथा । यस्मिन्नेकः समकोणोऽन्यौ न्यूनफोणौ तत् समकोणत्रिभुजं ज्ञेयम् । यथैकोऽधिककोणोऽन्यौ न्यूनौ स्तस्तद् अधिककोणत्रिभुज ज्ञेयम् । १ मध्यबिम्दुः for बिन्दुध K. २ भवति D. K. ३ भवति D. K. ४ कृतानि . ५ A. and B. Omit आौ. ६ तत्रिभुजं B. D

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/६८&oldid=150628" इत्यस्माद् प्रतिप्राप्तम्