विंशति काण्डः अथर्वण वेदः पैप्पलादसंहिता ७ १० १ अथ एकचनामविंशतिकाण्ड २ ० – १ धीती वा ये अनधन् वाचो अग्रं मनसा वा येबदवृतानि । तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ।। १ ।। स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत् स भुवत् पुनर्मघः । स द्यामौर्णोदन्तरिक्षं स स्वर्विश्वा भुवो अभवत् स आभवत् ।।२।। अथर्वाणं पितरं विश्वदेवं मातुर्गर्भ पितरसुं युवानम् । य इं चिकेता अमृतस्य धामन् नित्यस्य राय: परिधीरपश्यत् ।।३।। शिवास्त एका अशिवास्त एकाः सर्वा बिभष्र्यहणीयमानः । गुहा वाच निहितास्तिस्र एता एकेदिदं वि बभुबानु सर्व ।।४।। अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्र । विक्षे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जमित्वम् ।। ५ ।। दितेः पुत्राणामदितेरकार्ष महाशर्मणां महतामनर्मणाम् तेषां हि धाम गभिषक् समुद्रियं नैषां वे अपस परो अस्ति किं चन ।।६ ।। वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे । यस्यामिदं विश्थं भुवनमाविवेश सा नो देवी सुहवा शर्म यच्छतु।।७।। महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम । तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणामदितिं सुप्रणीतिम् ।।८ ।। सूत्रामाणं पृथिवी द्यामनेहसं सुशर्माणामदितिं सुप्रणीतिम् । दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ।। ९ ।। एकया च दशभिश्चा सुहुते द्वाभ्यामिष्टये विंशत्या च । तिसृभिश्च बहसे त्रिंशता च वियुग्भिर्वायविह ता वि मुञ्च ।। १० ।।
पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/७४४
दिखावट