सामग्री पर जाएँ

पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वण वेदः पैप्पलादसंहिता अष्टादश:काण्ड अथ महत् काण्डनाम अष्टादशाकाण्ड : १८-१ सत्येनोत्तभिता भूमि: सूर्येणोक्तभिता द्यौः । ऋतेनादित्थास्तिष्ठन्ति दिवि सोमो अधि श्रितः ।। १ ।। सोमेनादित्या बलिन: सोमेन पृथिवी मही । अथो नक्षत्राणामेषामुपस्थे सोम आहित: । २ ।। सोमं मन्यते पपिवान् यत् 'संपिंषन्त्योषधिम् । सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ।।३।। आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः। ग्राटाणामिच्छ्ण्व न् तिष्ठसि न ते अश्नाति पार्थिवः ।।४।। चित्तिरावत् उपबर्हणं चक्षुरावदभ्यञ्जनम् । द्यौभूमि: कोश आसीद्यदयात् सूर्या पतिम् ।।५ ।। रैभ्यासीदनुदेयी नाराशंसी न्योचनी । सूर्याया भद्रमिद् वासो गाथयैति परिष्कृता ।।६।। स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपश: । सूर्याया अश्विना वराग्निरासीत् पुरोगवः ।।७ ।। सोमो वधूयुरभवदश्विनास्तामुभा वरा । सूर्या वत् पत्वे शंसन्तीं मनसा सविताददात् ।।८ ।। मनो अस्बा अन आसीद् द्यौरासीदुत च्छदिः । शुक्रावनड्वाहावास्तां यदयात् सूर्या पतिम् ।।९ ।। ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् । श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ।। १० । ।