बभुश्च बभुकर्णश्च नीलागलसाला शिवः पश्य ।।२२ ।।
शर्वेण नीलशिखण्डेन भवेन मरुतां पित्रा
विरूपाक्षेण बभूणा वाचं वदिष्यतो हतम् ।।२३ ।।
शर्व नीलशिखण्ड वीर कर्मणिकर्मणि
इमामस्य प्राशं जहि येनेदं विभजामहे ।।२४ ।।
नमो भवाय नमः शर्वाय नम: कुमारसत्रवे
नमो नीलशिखण्डाय नम: सभाप्रपादिने ।।२५ ।।
यस्य हरी अश्वतरौ गर्द्धभावभित:सरौ ।
तस्मै नीलशिखण्डाय नम: सभाप्रपादिने ।
नमः सभाप्रपादिन इति ।।२६ ।।
इति नीलरुद्रोपनिषत्समाप्ता
अथ चरणव्यूह व्याख्यास्याम:
तत्र चत्वारो वेदा भवन्ति।।ऋग्वेदो यजुर्वेद:सामवेदो
ब्रह्मवेदः ।। ऋग्वेदस्य शास्रवेद उपवेदः । यजुर्वेदस्य धनुर्वेद
उपवेदः । सामवेदस्य गान्धर्ववेद उपवेदः । अथर्ववेदस्यायुर्वेद
उपवेदः । दिव्यसाम्पदप्रायश्चित्तीयाभिचारिकाः ।।
ऋग्वेदस्यात्रेयगोत्र: । गायत्री छन्द: । अग्निर्देवता ।
यजुर्वेदस्य काश्यपगोत्र:। त्रैष्टभं छन्दः । वायुर्देवता।। सामवेदस्य
भारद्वाजगोत्र: । जगती छन्दः । विष्णुर्देवता । अथर्ववेदस्य
वैखायनगोत्रः । आनुष्टभं छन्दः । ब्रह्मा देवता ।।
ऋग्वेद: पीतवर्णेन पद्मपत्राक्षः सुव्यक्तग्रीव
कुञ्चितकेशश्मश्रुः सुप्रतिष्ठित जानुजङ्कप्रमाणेन । सो ऽपि
पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/५
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति