सामग्री पर जाएँ

पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वण वेदः पैप्पलादसंहिता
अथ चतुर्चोनाम प्रथमकाण्ड
१- १
शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ।। १ ।।
आपः पृणीत भेषजं वरूथं तन्वे मम ।
ज्योक् च सूर्यं दृशे ।।२।।
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशंभुवम् ।।३ ।।
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
अपो याचामि भेषजम् ।।४।।

१.२
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
पृञ्चतीर्मधुना पयः ।। १ ।।
अमूर्या उप सूर्ये याभिर्वा सूर्य: सह ।
ता नो हिन्वन्त्वध्वरम् ।।।।
अपो देवीरुप बुवे यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ।।३ ।।
अप्स्वन्तरमृतमप्सु भेषजम् ।
अपामुत प्रशस्तिष्वश्वा भवथ वाजिन: !I४ । ।