घोडश:काण्डः अथर्वण वेद: पैप्पलादसंहिता क्षुद्रकाण्डनामषोडश: काण्ड ३ ६५ १ ६ - १ अन्तकाय मृत्यवे नमो हायमस्तु पुरुष: सहासुना । सूर्यस्य भागे अमृतस्य लोके प्राणा अपना इह ते रमन्ताम् ।।१।। उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् । उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये । । २ । । इह ते ऽसुरिह प्राण इहायुरिह ते मनः । उल्वा नित्रत्याः पाशेभ्यो दैव्यावाचा भरामसि ।। ३ ।। उत्क्रामात: माव पत्या मृत्योः पड्वीशमवमुञ्जमानः । मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ।।४।। तुभ्यं बात: पवतां मातरिश्वा तुभ्यं वर्षन्वमृतान्थापः । सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ।।५ ।। उद्यानन्ते पुरुष नावयानं जीवातन्ते दक्षपतिं कृणोतु । आ हेि रोहो मममृतं सुखं रथमथजिविर्विदयमा वदासि।। ६ ।। माते मनस्तत्रगान् मा तिरोभून् मा जीवेभ्यः प्रमोदो मानुगाः िपतृन्। विश्वे देवा अभिरक्षन्तु त्वेह ।।७।। मा गताना मादिधीधा ये नयन्ति परावतम् । उदारोह तमसो ज्योतिरेह्या ते हस्तं रभामहे ।।८।। श्यामश्वत्वा मा बलश् प्रेषितौ यमस्य यौपथिरक्षी प्रानौ । अर्वाङ् एहिमा बि दीध्यो भाति तिष्ठः पराङ्मनाः ।।९।। मैतं पन्थामनु गा भीम एष येन पूर्व नेयथ तं ब्रवीमि । म एतत् पुरुष मा प्र पत्या अभयं परस्तादभयं ते अर्वाक् ।। १० ।।
पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/४०८
दिखावट