सामग्री पर जाएँ

पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ अथर्वण वेद पैप्पलादसंहिता

त्रयोदश:काण्डः अथ षोडशचनाम त्रयोदशकाण्ड: १३-१ अन्तर्हितं मे बृहदन्तरिक्षमन्तर्हिताः पर्वता अग्नयो मे । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हमि ।। १ ।। तपःश्रमावन्तरौ मत् परीतं ब्रह्मयज्ञमन्तरं मद् दधामि । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्तिम ।।२।। अग्नीषोमावन्तरौ मदद भवाथो दिवं वर्म पृथिवीं च कृण्मे । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हमि ।।३।। अन्तर्हितं मे साम प्रस्तुतमन्तर्हितः परमेष्ठी प्रजापतिः । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हमि ।।४ ।। अन्तर्हिता सर्पराज्ञी विराण मे ऽन्तर्हितः पुरुषो मेध्यो मे । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।।५ ।। अन्तर्हिता मे षडुर्वी: सध्रीचीरन्तर्हिताः साध्या आप्त्या मे । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।।६।। अन्तर्हिता महर्षयः प्रचेतसो ऽन्तर्हितः सूर्यो मातरिश्वा । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि !!७ ।। अन्तर्हिता मे नद्यः स्यन्दमाना अन्तर्हिता ओषधीः पुष्पिणीर्मे । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।।८ ।। अन्तर्हिताः पशव: कक्ष्या मे ऽन्तर्हितं वयो यत् पतत्रि ! मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।।९।। अन्तर्हिता म इषवो ब्राह्मणानामन्तर्हिता वनस्पतय: समूलाः । मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।। १० ।।