२८ o अथर्वण वेद: पैप्पलादसंहिता अथ त्रयोदशचनाम दशमकाण्डः हा अम्ब तेजने धेनो लम्बनस्तनि । न तद्विदो यदिच्छसि यदु वित्तं न तद् घसः ।। १ ।। पुत्रो यस्ते पृश्निबाहुस्तमु त्वं सामनं कृधि । अथो दुहितरं नप्त्नीमथो त्वं सामना भव ।। २ ।। असामे कुरमे नैगुरस्य स्वसः । अराते नित्रतेि अमते स्नुहिते ।। ३ ।। परेत कस्तुपकं वः पुनर्ददामि । यो वो न वेद तं हत तस्यातु परि शिश्न्यम् ।।४।। तस्यातु पुत्रान् भ्रातृश्श्च तस्य गोष्ठं वितावत । यश्च सतो नास्ति वाकी यश्वासावहविर्तृहः । दुर्णाम्नीस्तत्र गच्छत तत्र सर्वाः परेतन ।।५ ।। पार धामान्यासामाशुगाष्ट्ठामवासरम् । अजैषं सर्वानाजीन् वो नश्यतेत: सदान्वाः ।।६।। अन्तश्वरां कोशेचरामथो गोष्ठावचारिणीम् । अथो याः स्वप्ने पश्यामस्ता इतो नाशयामसि ।।७।। कण्वा या गर्दभीव निभसत् सूकरीव । तस्यै प्रति प्र वर्तय तप्तमश्मानमासनि ।।८ ।। यो मर्या अभिगच्छात् स्त्रियं कस्तुपस्तोपिनीम् । कस्तुपमस्या आच्छिद्वाथैनां चातयातै परमां चित्परावतम् ।।९।। या भद्रा या शिवा योजी पयसा सह । अग्निष्टा अस्माकं गृहे गार्हपत्यो नि यच्छतु ।। १० ।।
पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/३२३
दिखावट