सामग्री पर जाएँ

पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वण वेद: पैप्पलादसंहिता
अथ एकादशर्चोनाम अष्टमकाण्डः
८ - १
कथा दिवे असुराय ब्रवाम कथा पित्रे हरये त्वेषनृम्ण:।
पृश्निं वरुण दक्षिणां ददावान् पुनर्मघत्वं मनसाचिकित्सी:।११ ।।
न कामेन पुनर्मघो भवामि संपृच्य कं पृश्निमेतामुपाजे।
केन मत् त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ।। २ ।।
सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।
न मे दासो नार्यो महित्वं व्रतं मीमाय यदहं धरिष्ये ।। ३ ।।
न त्वदन्यः कवितरो न वेधा न धीरतरो वरुण स्वधावः ।
त्वमङ्ग विश्वा जनिमानि वेत्थ स चिन्नु त्वज्जनो मायी बिभाय।।४।।
त्वं ह्यङ्ग वरुण स्वधावो विश्वानि वेत्थ जनिमा शर्धनीते।
किमेना रजसः परो ऽस्ति किमवरेणावरममुर ।।५ ।।
एकमेना रजसः परो ऽस्ति पर एकेन दुर्दाशं चिदन्यत्।
तत् ते विद्वान् वरुण प्र ब्रवीम्यधोवचस: पणयो भवन्तु
नीचैर्दासा उप सर्पन्तु रिप्राः ।।६।।
त्वं ह्यङ्ग वरुण प्र ब्रवीषि पुनर्मघेष्ववद्यानि भूरि।
मो षु पण्यभ्येतावता भूम त्वा वोचन्नराधसं जनास: ।।७ ।।
मा मा वोचन्नराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि।
स्तोत्रं मे विश्वमा याहि जनेष्वन्तर्देवेषु मानुषेषु विप्र ।।८ ।।
आ ते स्तोत्राणि वर्धनानि यामि देहि तन्महां यददत्तमस्ति । ।
युज्यो नः सप्तपदः सखासि समा नौ बन्धुर्वरुणः समा जा ।।९।।
वेद वै तद्यन्नौ समा जा ददामि तुभ्यं यददत्तमस्ति ।
देवो देवाय गृणते वयोधा विप्र विप्राय स्तुवते सुमेधाः ।। १० ।।