अथर्वण वेद: पैप्पलादसंहिता
७.४
इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।
तौ योक्ष्ये प्रथमौ योग आगते याभ्यां जितमसुराणां स्वर्यत् ।।१।।
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
संक्रन्दनो ऽनिमिष एकवीरः शतं सेना जयतु साकमिन्द्रः ।।२।।
संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ।।३ ।।
स इषुहस्तै: स निषङ्गिभिर्वशी संस्रष्टा युध इन्द्रो गणेन ।
संसृष्टजित्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्तात् ।।४।।
बलविज्ञाय: स्थविर: प्रवीर: सहस्वान्वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्जैत्रायेन्द्र रथमा तिष्ठ गोविदम्।।५ ।।
इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सत्वानो अनु सं रभध्वम् ।
ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।।६।।
अभि गोत्राणि सहसा गाहमानो अदाय उग्रः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयोध्यो अस्माकं सेना अवतु प्र युत्सु ।।७।।
बृहस्पते परि दीया रथेन रक्षोहामित्राङ् अपबाधमान
प्रभञ्जञ्छत्रून् प्रमृणन्नमित्रानस्माकमेध्यविता तनूनाम् ।।८ ।।
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ।।९ ।।
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्।।१० ।।
अस्माकमिन्द्र: समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्मान्देवासो ऽवता हवेषु ।।११ ।।
पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/२५४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति