सामग्री पर जाएँ

पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यद् अश्म पितो अजगन् विवस्व पर्वतानाम् । अत्रा चिन् नो मधो पितो अरं भक्षाय गम्याः १७। यत् त -ल गवाशिरो यवाशिरो भजामहे । वातापे पीव इद् भव ।।।८८।। यद् अपाम् ओषधीनां वलिंसम्? आरिशामहे । वातापे पीव इद् भव ।।९।। करम्ब्य ओषधे भव पीवो वृत्र उदारथिः । वातापे पीव इद् भव ।।१०। तां त्वा वयं पितो वचोभिर् गावो न हव्या सुपूदिम अस्मभ्यं त्वा सधमादं देवेभ्यस् त्वा सधमादम् ।।११।

६१७ 6.17 प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे। मरुद्भिरग्न आ गहि।।१।। नहि देवो न मर्त्यो महस्तव क्रतुं परः । मरुद्भिर् अग्न आ गहि ।।२।। ये महो रजसो विदुर् विश्वे देवासो अद्रुहः । मरुद्भिरग्न आ गहि ।।३।। ये शुभ्रा घोरवर्पसत् सुक्षत्रासो रिशादसः । मरुद्भिरग्न आ गहि ।।४।। य उग्रा अर्कमानचुर् अनाधृष्टास ओजसा । मरुद्भिरग्न आ गष्टिं ।।५।। ये नाकस्याधि रोचने दिवि देवास आसते । मरुद्भिर् अग्न आ गहि ।।६।।