सामग्री पर जाएँ

पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वण वेद: पैप्पलादसंहिता
अथ नवर्चोनाम षष्ठकाण्डः
६- १
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रूननु यं विशे मदन्त्यूमाः ।।१।।
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ।। २ ।।
त्वे क्रतुमपि पृञ्चन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वादो: स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ।।३।।
इति चिद्धि त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्दुरेवा यातुधानाः ।।४।।
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः सं ते श्यामि ब्रह्मणा वयांसि ।।५ ।।(पा.शिशामि)
स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् ।
आ दर्शते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ।।६।।
नि तद्वधिषे ऽवरं परं च यस्मिन्नाविथावसा दुरोणे ।
आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ।।७।।
इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ।।८ ।।
एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ।। ९ ।।

६-२
ऋधङ्मन्द्रयोनिनोविभावा अमृतासुः सुजन्मा वर्धमानः
अदब्धासुर्भ्राजमानो ऽहेव त्रितो दाधार त्रीणि ।। १ ।।