अथर्वण वेद: पैप्पलादसंहिता
अथ षडृचोनाम तृतीयकाण्डः
३-१
आ त्वा गन् राष्ट्र सह वर्चसोदिहि प्राङ् विशां पतिरेकराट् त्वं वि राज।
सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ।। १ ।।
त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्वातो वसूनि वि भजास्युग्रः ।।२।।
अच्छ त्वा यन्तु हविन: सजाता अग्निर्दूतो अजिरः सन्तुराति: ।
जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ।। ३ ।।
अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।
सजातानां मध्यमेष्ठेयमस्या: स्वे क्षेत्रे सवितेव वि राज ।।४।।
आा प्र द्रव परमस्या: परावत: विश्वे ते द्यावापृथिवी अभूताम् ।
तदयं राजा वरुणस्तथाह स त्वायमह्वत् स इहेदमेहि ।।५ ।।
इन्द्रेन्द्रं मनुष्यः परेहि सं यज्ञियास्त्वा वरुणेन संविदानः ।
स त्वायमह्नत् स्वे सधस्थे स देवान् यक्षत् स उ कल्पयाद्विशः ।।६ ।।
पथ्या रेवतीर्बहुधा विरूपाः सर्वाः सङ्गत्य वरिवस्ते अक्रन् ।
तास्त्वा सर्वा: संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ।।७।।
यदजिरेण हविषाव त्वा गमयामसि ।
अत्रात इन्द्रः केवलीर्विशो बलिहृतस्करत् ।।८ ।।
३-२
हरिणस्य रघुष्यदो ऽधि शीर्षणि भेषजम् ।
सुक्षेत्रियं विषाणयाद् विषूचीनमनीनशत् ।। १ ।।
अनु त्वा हरिणो वृषा पद्धिश्चतुर्भिरक्रमीत् ।
विषाणे वि ष्य गुष्पितं यत् किञ्च क्षेत्रियं हृदि ।।२।।
पृष्ठम्:Paippalad Samhita-Kunjabihari Upadhyay.pdf/१४०
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति