पृष्ठम्:Mudrarakshasa.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
मुद्राराक्षसे

 चाणक्यः-भ[१]द्र , कस्मिंश्चिदाप्तजनानुष्ठेये कर्मणि त्वां व्यापारयितुमिच्छामि

 सिद्धार्थक:-( सहर्षम् ।) अज्ज[२], अणुग्गिहिदोह्मि। । आणवेदु अज्जो किं[३] इमिणा दासजणेण अज्जस्स अणुचिद्विदव्वम् । (क)

 चाणक्यः प्र[४]थमं तावद्वध्यस्थानं गत्वा घातकाः सरोषदक्षिक्षिसंकोचसंज्ञां ग्राहितव्याः। ततस्तेषु गृहीतसंज्ञेषु[५] भयापदेशादि-तस्ततः प्रद्रुतेषु श[६]कटदासो वध्यस्थानादपनीय राक्षसं प्रापयितव्यः। तस्माच्च[७] सुहृत्प्राणपरिरक्षणपरितुष्टात्पारितोषिकं ग्राह्यम्[८] । राक्षस एव कंचि[९]त्कालं सेवितव्यः । ततः प्रत्यासन्नेषु परेषु प्रयोजनमिद-मनुष्ठेयम् । ( कर्णे एवमिव ।)


 ( क ) आर्य, अनुगृहीतोऽस्मि । आज्ञापयत्वार्यः किमनेन ‘दासजनेनार्यस्यानुष्ठातव्यम् ।


 कस्मिश्चिदिति । अयमिष्टजनानुनयः पर्युपासनम् ।

 प्रथममिति । अयं भावः --शकटसशूलारोपणसमये मया सरोषद- क्षिणाक्षिसकोचसंज्ञायां क्रियमाणायां तं विहाय भवद्धिः पलायितव्यमिति संकेतयितव्या इत्यर्थः ।


  1. E, has त्वां after this; E, inserts अपि before आप्त° ; B, has आत्म-नानुष्ठे'; P. R. and E. read °य for ये; E. om.त्वां and has नियोजयितुम् for व्यापार°.
  2. om. K. E; in next word नु for णु A; ग्ग for ग्गि B; गि G. E; ही for हि P. N.; B. adds ता before आण°; P. has देवु for वेदु; N. has वेऊ; G. omअज्जो.
  3. जं G. E. N.; °णेन B. G. P; G. om .following word in which P. has स for स्स
  4. B. has भद्र here; धातु° M. In next word पं for प B. E. K; °पादाक्षि° M; चं for च A,
  5. संकेतेषुः all Mss. except B. G. E. N.
  6. After अपवाह्य (for अपनीय) E.;रा°om. in G.
  7. °स्मात् A. P. G; E. and B. om. परि in the next word. परिगृह्य P
  8. गृहीत्वा राक्षस एव किंचित्कालान्तरं सेवितव्यः H.
  9. किं for कं M for कालं° which follows G. reads कालान्तरं सेवयितव्य:, E. ditto (with °रे for°रम्.).B. and E. insert स्वया before प्रयो° and P. om.इदम् after this; G. and E. एवमेव, B. and R. एवमेवम्
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/८९&oldid=320844" इत्यस्माद् प्रतिप्राप्तम्