पृष्ठम्:Mudrarakshasa.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
प्रथमोऽङ्कः ।


 चरः-त[१]व उवज्झाओ एव्व जाणिस्सदि जं इमिणा जाणिदेण होदि[२] । तुमं दाव एत्तिअं जाणासि कमलाणं चन्दो अणभिप्पेदो ति। णं पेक्ख ।

कमलाण म[३]णहराण वि रुआहिन्तो विसंवदइ शीलम् ।
संपुण्णमण्डल[४]म्वि जाइं चन्दे विरुद्धइं ॥ १९ ॥ ( क )

 चाणक्यः-(आकर्प्यात्मगतम्। ) अ[५]ये, चन्द्रगुप्तादपरक्तान् पुरुषान् जानामीत्युपक्षिप्तमनेन ।

 शिष्यः मू[६]र्ख, किमिदमसंबद्धमभिधीयते ।

 चर: -[७]हंहो बह्मण, सुसंबद्धं जेव्व एदं भवे । ( ख)


 ( क ) तवोपाध्याय एव ज्ञास्यति यदेतेन ज्ञातेन भवति । त्वं तावदतावद् जानासि कमलानां चन्द्रोऽनभिप्रेत इति । ननु पश्य ।

कमलानां मनोहराणामपि रूपाद्विसंवदति शीलम् ।
संपूर्णमण्डलेऽपि यानि चन्द्रे विरुद्धानि ॥

 (ख) अहो ब्राह्मण, सुसंबद्धमेवैतद्भवेत् ।


 कमलानामित्यनेन पद्येन मनोहरगुणस्यापि राक्षसपक्षपातिजनस्य स्वरूपाननुगुणं शीलमसंपूर्णमण्डले चन्द्रगुप्ते विरुद्धमाचरतीति गूढ़ार्थ: सूचितः । चन्द्रगुप्तस्य भाविसंपूर्णमण्डलवं न सहत इति यावत् ।


  1. B. and E. have हंहो बम्मणा before this; for तब B. and Nagpur MIS have तुअ; M. K. have तुह; E. omits it; °वज्जा° A; ज्जेव B. E; एव A; जेव्व K; जेव्व Nagpur MSS
  2. भोदि B. E; °दिति R; B. adds after this उजूअबूद्धिआ; तुअं K. E. ( वाव for दाव ); B, has इत्ति; जाणेसि...°लानां E; भिमदो° B. and Nagpur MSS; 'पेद्यो R.
  3. °णोह° B. R.; वि रुअदमे P; आदो for अहिंतो B; रूप आयितो R; रूवाहितो E; रूआदो आहिंतों M, वअइ B, वइ A. M; वदेइ E; °सव्वअइ K; दइव P; सीलं P
  4. लेवि. R; णंमिवि E, B. and P. om. बि; K. has ई in जाइं and विरुद्धइं; the Nagpur MSS. दाई only,
  5. °यमेब. R.
  6. om. in M. K. R; ‘द्धमेव स° B.
  7. As before एव्व्' R. M; जेव्व K. P; जेब Nagpur MSS; जइ after भवे H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७६&oldid=320551" इत्यस्माद् प्रतिप्राप्तम्