पृष्ठम्:Mudrarakshasa.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
प्रथमोऽङ्कः ।


तामापादिताश्चन्द्रगुप्तसहोत्थायिनो भद्रभटप्रभृतयः प्रधानपुरुषाः । शत्रुप्रयुक्तानां च तीक्ष्णरसदायिनां प्र [१]तिविधानं प्रत्यप्रमादिनः परीक्षितभक्तयः क्षितिपतिप्रत्यासन्ना: नि[२]योजितास्तत्राप्तपुरुषाः । अस्ति चास्माकं सहा[३]ध्यायि मित्रमिन्दुशर्मा नाम ब्राह्मणः । स चौ[४]शनस्यां दंडनीत्यां चतुःषष्ट्यङ्गे ज्योति:शास्त्रे च परं प्रावीण्यमुपगतः । [५]स मया क्षपणकलिङ्गधारी नन्दवंशवधप्रतिज्ञानन्तरमेव कुसुमपुरमुपनीय [६]सर्वनन्दामात्यैः सह सख्यं ग्राहितो विशेषतश्च तस्मिन्रा[७]क्षस: समुत्पन्नविश्रम्भः। त[८]देनेदानीं महत्प्रयोजनमनुष्ठेयं भविष्यति । [९]तिष्वस्मास्वारोपितराज्यतन्त्रभारः सततमुदास्ते । अथ वा


मुत्पाद्य इतो निःसार्य मलयकेतुना सह संधाय कृतकृत्यतां ‘एते वयं देवस्य कार्येऽवहिता: स्म:’ इत्येवंरूपां(१७२ पृष्टे)वक्ष्यमाणां आपादिता: सहोत्थायिनो बाल्यात्प्रभुति स्वसमानतया दानमानादिभिर्वर्धिता इत्यर्थः । इदानीं कार्यनिर्वहणप्रसङ्गसमय इत्यर्थः । ‘यथाशक्ति क्रियते’ इत्यारभ्य 'भविष्यति’इत्यन्तं बीजानुगुणप्रस्तुतकार्यारम्भः करणम् । अत्रैव करणे । अत्र तावत्' वृषल’ इत्यारभ्य 'प्रमार्ष्टुमिच्छामि’ इत्यन्त: संदर्भः बीजानुकूलसंघटनप्रयोजनविचारो युक्तिः । ‘शत्रुप्रयुक्तानाम्’ इत्यादि 'तत्राप्तपुरुषा:’ इत्यन्तं बीजसुखदुःखहेतुर्विधानम् । सुखदुःखहेतोर्विचारस्यात्र विधानात् । तीक्ष्णरसदायिनो दुःखहेतवः तत्प्रतिविधानं प्रति अप्रमादिनः सुखहेतवः ।

 न किंचित्परिहास्यत इति । परिहीनं न्यूनं न भविष्यतीत्यर्थः । इयं बीजनिष्पत्तिः परिन्यासः । न किंचित्परिहास्यते सर्वे समाहितमिति परितः सर्वैरुपायैतर्वीजस्य न्यासात् ।


  1. Om. in R.
  2. नियुक्तास्तत्रा° B.; निरूपितास्तत्र तत्रा° E. and Nagpur MSS.
  3. °ध्यायी. E; °न्नं विष्णुशर्मा B. H.
  4. औशनस्य...नीतौ B. and E.
  5. स च.B. E.; लिङ्गवेपधारी R.; B. om. वंश.
  6. सर्वामात्यै: A. P.; सच ( sic ) नन्दा° Nagpur MSS.
  7. राक्षसे R.; °सश्च E.; समुत्पन्नः R.; महदत्र प्रयो.° R.; भवति P.
  8. तदेवास्मत्तो E.; किंचिदपि R. M.; परिहीयते P.
  9. प्रकृतिरस्मास्वारो B. E. and the Nagpur MSS.; प्रकृतिष्वारो° M.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७२&oldid=316158" इत्यस्माद् प्रतिप्राप्तम्