पृष्ठम्:Mudrarakshasa.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
मुद्राराक्षसे


[१]जगति जनापवादः। लोकप्रत्ययार्थमस्यैवार्थस्याभिव्यक्तये पिता ते चाणक्येन घातित इति रहसि त्रासयित्वा भागुरायणेनापवाहितः पर्वतकपुत्रो मलयकेतुः । शक्यः खल्वेष राक्षसमतिपरिगृहीतोऽपि [२]व्युत्तिष्ठमानः प्रज्ञया निग्रहीतुम् । न पुनरस्य निग्रहात्पर्वतकवधोत्पन्नं [३] राक्षसस्यायशः प्रकाशीभवत्प्रमार्ष्टुमिच्छामि । प्रयुक्ताश्च स्वपक्षपरपक्षयोरनुरक्तापरक्तजनजिज्ञासया बहुविधदेशवे[४]षभाषाचारसंचारवेदिनो नानाव्यञ्जनाः प्रणिधयः। [५]अन्विष्यते च कुसुमपुरवासिनां नन्दामात्यसुहृदां नि[६]पुणं प्रचारगतम् । तत्तत्कारणमुत्पाद्य कृत[७]कृत्य-


तु मलयकेतौ प्राय एनमेव परिगृह्य प्रत्यवतिष्ठेत । तदानेनैव जनापवादेन निर्वहणे जीवसिद्धिप्रत्यायितेन राक्षसमलयकेत्वोर्विरोधं संपाद्य कार्यप्रनाड्या राक्षसो वशयितुं शक्यः स्यादिति भावः । वक्ष्यति चैतद्वनगज इव तस्मात्सोऽभ्युपायैर्विनेय इति ।

प्रज्ञयेति । प्रज्ञया निर्वहणे संपत्स्यमानयाधुनैव निग्रहीतुं शक्यः । तन्न युक्तमित्याह--न पुनरस्येति । मलयकेतुर्निगृहीतश्चेत् पर्वतकवधोऽपि मयैव कृत इति स्यात् । ततश्च राक्षसोपरि पातितमयशः परिमार्जितं स्यात्तथा सति निर्वहणे कुटिलनयेन संविधास्यमानो राक्षसमलयकेतुविरोधो न सिद्ध्येदिति भावः ।

निपुणेति । निपुणं गूढत्वेन क्रियमाणं प्रचारगतं कपटाचरणप्रकारः तत्तत्कारणं ‘स्त्रीमद्यमृगयाशीलौ’ इत्यादि तृतीयाङ्के (१७२ पृष्ठे)वक्ष्यमाण-


  1. जगति om. in A.; जगतीं M.; R. and M. have °स्यानभिव्यक्तये; E. has अस्य चार्थस्यैवाभिव्यक्तये.
  2. R. has उत्ति. ; बुद्ध्या for प्रज्ञया B, निवारयितुम् B. E. H. and N.
  3. राक्षसस्य om. B. E. P. N; स्यापयश: for स्यायश: R. M.; प्रमार्ष्टुमिति E. and H.; प्रमार्ष्टुमलमिति. B.; B. and N. add अन्यच्च before प्रयु° for which N. E. read सुनियुक्ताश्च; B. नियुक्ताश्च. B. adds मया after प्रयु° and om. one पक्ष.
  4. B. and R. omit वेष, B. reading वेश after भाषा.
  5. अन्विष्यन्ते and गतयः at the end of the sentence B. E. H. and Nagpur MSS.; B. E. and M. read निवासिनाम्.
  6. निपुणतरं B.; मापाद्य for मुत्पाद्य P.; तत्तत्कृत्यतायामापा P.
  7. Dhruvaproposes कृतक.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७१&oldid=316155" इत्यस्माद् प्रतिप्राप्तम्