अ[१]प्राग्नेन च कातरेण च गुणः स्याद्भत्तेन कः |
तन्मयाप्यस्मिन्वस्तुनि नशयानेन [२]स्थीयते । यथाशक्ति क्रियते [३]तंद्रहणं प्रति यत्नः। कथमिव । अत्र तावदृषलपर्वतकयोरन्यतर[४]विनाशेनापि चाणक्यस्यापकृतं भवतीति विषकन्यया राक्षसेनास्माकमत्यन्तोपका[५]रि मित्रं घातितस्तपस्वी पर्वतक इति संचारितो
अप्राज्ञेनेति । ते भृत्या नृपतेर्भूतये भवन्ति इतरे उक्तविलक्षणाः संपत्सु चापत्सु च कलत्रं कुटुम्बवत् केवलं पोष्याः । न कापि तैः स्वामिकार्यसिद्धिरिति भावः । इदं बीजगुणप्रोत्साहनं भेदः अङ्गम् । कार्यगुणैः स्वोद्योगस्य बीजस्य प्रोत्सहनादुपबृंह्णात् ॥ १५ ॥
नशयानेनेति । नशब्देन समासः। सावधानेन स्थीयत इत्यर्थः । इदं बीजसंविधानं समाधानमङ्गं बीजस्य सम्यग्विधानात् ।
लोक इति । लोका अयमेवार्थस्तथ्य इति यथा मन्येरन् यथा चास्मासु विश्वसेयुस्तदर्थम् । किंचास्यैव लोकप्रतीतस्यार्थस्याभिव्यक्तये निर्वहणसंधौ कथं राक्षसेन घातितस्तातो न चाणक्येनेत्येवं मलयकेतुं प्रत्यमुमेवार्थमभिव्यञ्जयितुं प्रत्यापयितुमित्यर्थः । भागुरायणनाम्ना स्वाप्ततमेन मलयकेतोः कृतकाप्तिकृतेन गूढ़प्रणिधिना अपवाहितः कटकान्निःसारितः । मलयकेतुरर्धराज्यप्रदानेनात्नैव स्थापितश्चेद्राक्षस उदासीनः अन्यत्र कापि गच्छेत् । अमर्षाद्वान्यं कंचिप्रवलं प्रतिपक्षमुत्थाप्य प्रत्यवतिष्ठेत नास्मद्वशमेयात् । अपवाहिते