पृष्ठम्:Mudrarakshasa.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
मुद्राराक्षसे


गतोऽपि घातितस्तपस्वी नन्दवंशीयः सर्वार्थसिद्धिः। यावदसौ मलयकेतु[१]मङ्गीकृत्यास्मदुच्छेदाय विपुलतरं प्रयत्नमुपदर्शयत्येव । (प्रत्यक्षवदाकाशे लक्ष्यं बद्धा ) साधु अमात्य राक्षस, साधु । साधु श्रोत्रिय, साधु । [२]साधु मन्त्रिबृहस्पते, साधु । कुतः।

ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते
 तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया।
[३]र्त्तुर्ये प्रलयेऽपि पूर्वसुकृतासाङगेन निःसङ्गया
 भत्तया कार्यधु[४]रं वहन्ति बहवस्ते दुर्लभास्त्वादृशाः ॥ १४ ॥

अत एवास्माकं त्वत्संग्र [५]हे यत्नः कथमसौ वृषलस्य साचिव्यग्रहणेन सानु[६]ग्रह: स्यादिति । कुतः।


 अस्माभिरिति । इदं गूढबीजप्रकाशनमुद्भेद: । पूर्वं गूढतया कृतस्य बीजस्य प्रकाशनात् । यावदेवं सत्यपि नन्दान्वये समूलमुन्मूलितेऽपीत्यर्थः ।

 साधुत्वमेवाह--ऐश्वर्यादिति । बहवो दुर्लभा भवानेको जगति दिप्ट्योपलब्धोऽस्माभिरित्यर्थ्:। ‘कृतिनः’ इति कचित्पाठ:। कुशला इत्यर्थः। तस्य भर्त्तु: पुन:प्रतिष्टाशयानुगच्छन्तीत्यनुषज्यते । पूर्वसुकृतासङगेन पुराकृतसंरक्षणादिसुकृताविस्मरणेनेत्यर्थः । निःसङगया संप्रति निरुपाधिकया फलाशारहितयेत्यर्थः । इदं बीजगुणवर्णनं विलोभननामाङगमू । कार्यगुणवर्णनेन कारणगुणवर्णनस्यार्थसिद्वत्वात् ॥१४॥

 अत एवेति । अत्रौत्सुक्यमात्रमारम्भः स्पष्टमभिहितः ।


  1. ‘केतुमूरीकृत्य M. R.; केतुमुररीकृत्य P; विमलतरं M; प्रपड्बं E. P. N.; यत्त्नं A;p, has अस्मदुच्चेदाय after this.
  2. K . and P. om. one साधु before श्रोत्रिय; R. repeats साध्वमात्थ and omits oneसाधु before and one after श्रोत्रिय; N. adds मन्त्रि before श्रोत्रिय; B. omits all after राक्षस साधु to मन्त्रि; E. has मन्त्रि for साधु before श्रोत्रिय; and omits साधु before मन्ध्रिवृहस्पते.
  3. R. M. have यत्
  4. धुरां B. R. M. A.; कृतिनः for बहवः B. E. P.
  5. संग्रहणे P. and N.; प्रयत्न P. B.; °मस्य for मसौ. M.; अहणेसा° E
  6. सानुरागः R. N.; P. om. इति.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/६९&oldid=316151" इत्यस्माद् प्रतिप्राप्तम्