पृष्ठम्:Mudrarakshasa.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
प्रथमोऽङ्कः ।


सोऽहमिदानीसवसितप्रतिज्ञा[१]भारोऽपि वृषलापेक्षया शस्त्रं धारयामि ।

येन मया
 समुत्खाता नन्दा नव हृदयरो[२]गा इव भुवः
  कृता मौर्य लक्ष्मीः सरसि न[३]लिनीव स्थिरपदा ।
 द्वयोः सारं तुल्यं द्वितयमभियुक्तेन मनसा
  फलं कोपप्रीत्योर्द्वि[४]षति च विभक्तं सुहृदि च ॥ १३ ॥

अथ वा अगृहीते राक्षसे किमुत्खातं नन्दवंशस्य किं वा स्थैर्यमुत्पादितं चन्द्रगुप्तलक्ष्म्याः । (विचि[५]न्त्य) अहो राक्षसस्य नन्दवंशे निरतिशयो भक्तिगुणः। स खलु कस्मिश्चिदपि जीवति नन्दान्वयावयवे वृषलस्य साचिव्यं ग्राहयितुं न शक्यते । [६]तदभियोगं प्रति निरुद्योगः शक्योऽवस्थापयितुमस्माभिः । अनयैव बुद्ध्या तपोवन-


न्यासादुपक्षेपात् । शस्त्रधारणमावश्यकमित्यह-येनेति । सारं न्याय्यम्। ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिपु' इत्यमरः । फलं निग्रहानुग्रहरूपमभियुक्तेन निग्रहानुग्रहाभिनिवेशवता सनसा द्विषत्सुहृदोस्तुल्यं युगपद्विभक्तं विभज्य स्थापितमित्यर्थः॥ १३ ॥ सोऽहमिति पूर्वेणान्वयः। इदं बीजस्य बहुलीकरणं परिकरः।चन्द्रगुप्तलक्ष्मीस्थैर्योत्पादनहेतोर्बीजस्यावश्यकर्त्तव्यत्वेन प्रचुरीकरणाह्वितीयमङ्गम् । अहो इति । इयं बीजविपये आश्चर्यावेशः परिभावना तृतीयभङ्गम् । राक्षसभक्तिगुणविषयकाश्चर्यावेशस्य तत्संग्रहवीजविषयत्वोपपत्ते: । अहो एवं श्लाघ्यो मदीयोद्योग इति । स खल्विति । तस्य नन्दन्वयावयवस्याभियोगं प्रति प्रतिष्ठापनाभिमानं प्रति निरुद्योगो व्यवसायहीनश्चेद्वशे स्थापयितुं शक्य’ इत्यर्थः । ‘तदभियोगं प्रति निरुद्यमो वावस्थाप्येत’ इति पाठान्तरम् । वा अथवा तदभियोगं प्रति निरुद्यमो व्यवसायहीनोऽवस्थाप्येत वशीक्रियेतेत्यर्थः ।


  1. भरो for भारो B. M. R. and N.
  2. शल्या for रोगा
  3. बिसिनीव P.
  4. द्विषदि K. P. R. M.
  5. Om. R.; E. has before it इति.
  6. अतः before this B. E. P.IK. has नन्दवंशोद्यमं प्रति (om. शक्यः). R. M. add तु after प्रति B. and H. read निरुद्योगैरस्माभिरवस्थातुमयुक्तमित्यनयैव &se.P. and B. agree, but P. peads मयुक्तं for °सयुक्तं and अस्माभिः before अनयैव; EB. न before निरुद्योगैः and युज्यते for °अयुक्तं omitting एव ' after अनया
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/६८&oldid=316075" इत्यस्माद् प्रतिप्राप्तम्