पृष्ठम्:Mudrarakshasa.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
मुद्राराक्षसे ।

( परिक्रम्यावलोक्य च ।) इमे नो गृहाः । [१]तद्यावत्प्रविशामि । (नाट्येन प्रविश्यावलोक्य च ।) अये, तत्किमिदम[२] स्मद्गृहेषु महोत्सव इव दृश्यते । स्वस्वकर्मण्यधिकतरमभियुक्तः परिजनः । तथा हि[३]

वहति जलमियं पिनष्टि गन्धा-
 निर्यमियमुद्रथते स्रजो विचित्राः ।
भुसलमिदमियं च पातकाले
 मुहुरनुयाति कलेन हुंकृतेन ॥ ४ ॥
भवतु । कुटुम्विनीमाहूय पृच्छामि । ( नेपथ्याभिमुखमवलोक्य । )


एषां लक्षणानि –‘गूढ़ार्थपदपर्यायमालारूपेण प्रश्नोन्तरमालारूपेण च द्विविधमुद्धात्यकम् । अवलगितमपि द्विविधम् --अन्यकार्यछझनान्यकार्यकरणम्, अन्यकार्यप्रसङ्गात्प्रकृतकार्यसिद्धिः’ इति । असद्भूतं मिथःस्तोत्रं प्रपञ्चः । पूर्वरङ्गे नटादिभिः साम्यादनेकार्थप्रयोजनं त्रिगतम् । प्रियसदृशैर्वाक्यैरप्रियैर्लोभनं छलम् । साकाङ्क्षस्य वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिर्वा वाक्केलिः । स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् । सहसोदितं प्रस्तुतविरोधि गण्डम् । रसावेशादुक्तान्यथाव्याख्यानमवस्यन्दित्तम् । सोपहासनिगूढ़ार्थप्रहेलिका नालिका । प्रहेलिकावहेलनवचनम् । असंब- द्धकथाप्रायः प्रलापोऽसत्प्रलापः । अन्यार्थं हास्यप्रलोभनकरं वचनं व्याहारः । दोषाणां गुणवत्प्रतिपादनं मृदवमिति । एषां यथासंभवं कतिचित्प्रस्तावनायां प्रयोक्तव्यानि । अत्र अये तत्किमिदमि त्यादिना गृहकृत्यप्रसङ्गेन कूरग्रहः स केतुरिति प्रस्तावनारूपकार्यसिद्धेः अवलगनावलगितं नाम आमुखाङ्गम् ।

 वहति जलमिति स्वभावोक्तिरलंकार: ॥ ४ ॥


  1. For तद्यावत् P. has यावत् and R. तावत्. For °मि R. has °मीति; °मिद° om. in R.
  2. °मस्मदृ...महोत्सवो दृश्यते K. गृहोत्सव इवाद्य स्व° °P;one स्व om. in E.
  3. हि om. in E. ७ °नियम्यनु° A. ५ For मुसल, A. P. E. read मुशल; For °मिद° M. R. read °मिय°.६ For कुटुम्बिनीमाहूय K. M. R. read कुटुम्बिनीं तावदाहूय ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/५७&oldid=315932" इत्यस्माद् प्रतिप्राप्तम्