पृष्ठम्:Mudrarakshasa.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
मुद्राराक्षसे


एतेषां लक्षणानि विस्तरभयान्नेहोच्यन्ते । अथैषां सामग्री निरूप्यते । तत्र पञ्चसंधयः-- ‘मुखं प्रतिमुखं गर्भः सविमर्शा निबर्हणम्’ इति । संधिर्नाम एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरप्रयोजनसंबन्धः । तत्रारम्भबीजसंबन्धो मुखसंधिः । यत्रबिन्दुसंबन्धः प्रतिमुखसंधिः । प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः। नियताप्तिप्रकर्षसंबन्धो विमर्शसंधिः । फलागमकार्ययोः संबन्धो निबर्हणसंधिः ।

'बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः॥
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासंख्येन जायन्ते मुखाद्याः पञ्चसंधयः ॥' इति ॥

अर्थप्रकृतयः कार्यसिद्धिहेतवः बीजादयः पञ्चारम्भादिपञ्चावस्थासमन्विताः सन्तः यथासंख्यं मुखाद्याः पञ्चसंधयो जायन्त इत्यर्थः।"

आरम्भादीनां लक्षणं निरूपितं दशरूपके–

‘औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ।
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवः ।
अपायाभावत: प्राप्तिर्नियताप्तिः सुनिश्चिता ।
समग्रफलसंपत्तिः फलयोग उदाहृतः ॥'

अथ बीजादिपञ्चकं निरूप्यते--

स्तोकोद्दिष्टः कार्यहेतुर्बीजं विस्तार्यनेकधा ।
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥
प्रतिपाद्यकथाङ्गं स्यात्पताका व्यापिनी कथा ।
अव्यापिनी प्रकरिक कार्यं निर्वाहकृत्फले ।’
इति लक्षणसंग्रहः ॥

अथ नान्दीस्वरूपं निरूप्यते--

‘अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्
यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा ।
द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता ॥'

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/५३&oldid=216100" इत्यस्माद् प्रतिप्राप्तम्