पृष्ठम्:Mudrarakshasa.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
मुद्राराक्षसे ।

नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु-
र्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः[१] ॥ १ ॥


निर्दिश्य छलेनोत्तरयति--शशिकलेति । पुनरपि मया पृष्टाया एव युवत्याः शशिकलेति नाम स्यादिति मन्वानाया देव्या ऋजूक्तिः किं नु नामैतदस्या इति । पुनश्च शशिकलामेवोद्दिश्य अस्या इत्युभयसाधारण्येन शिवस्य छलोत्तरं—- नामैवास्यास्तदेतत्परिचितमित्यादिना । कस्य हेतोरिति केन हेतुनेत्यर्थः । निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनमिति षष्ठी । ते इति शेषे षष्ठी । अथ परिचितशशिकलानामकथनव्याजेन मया बुभुत्सितां युवतिं निह्नुत इति शिवस्य कैतवं ज्ञात्वा जटाजूटनिलीनापरिचितनारीविषयकः प्रश्नः क्रियते न परिचितेन्दुविषय इति देव्याह--नारीं पृच्छामि नेन्दुमिति । तत्र नारीमिति एकस्मिन्नेव पदे पृच्छतेरप्रधानकर्मत्वं देव्यभिमतत्वेनापाद्य वाक्छलेन पुनरपि शिव उत्तरयति । यदि नारीं प्रति प्रश्नः क्रियते न तु मां प्रति इन्दुप्रधानकर्मकः तर्हि सजातीयत्वाद्विश्रम्भपात्रं ते सखी पृष्टा सती--कथयतु विजया न प्रमाणं यदीन्दुरिति । सुयोज्यमानोऽपीन्दुरूपोऽर्थः न प्रमाणं यदि तथ्यत्वेन न संमतश्चेदित्यर्थः । यद्वा । उभयो: कर्मकारकयोः संनिहितयोः सतोरेकस्य त्यागायोगात् नारीमिन्दुमित्युभयमपि अप्रधानकर्मत्वेनापाद्य शिव एवमाह । यदि नारीं प्रति प्रश्नः क्रियते नेन्दुं प्रति तर्हि--कथयतु विजया । न प्रमाणं यदीन्दुः विजातीयत्वादिन्दुः प्रष्टव्यत्वेन न संमतश्चेदित्यर्थः । --देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः इत्येवं प्रकारेण देव्याः सकाशाद्बुद्धिकृतापादानत्वविवक्षया पञ्चमी । सुरसरितं गङ्गां निह्नोतुमपलपितुमिच्छोर्वाक्छलेन देवीं वञ्चयत इति यावत् । विभोः परमेश्वरस्य शाठ्यं छलोक्तिरव्यात्पायादिति पद्यस्य वाच्योऽर्थः । अत्र वक्रोक्तिरलंकारः ।

'यदुक्तमन्यथावाक्यमन्यथात्वेन योज्यते ।
श्लेषेण काक्वा विज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥' इति लक्षणात् ।

तेन च वक्ष्यमाणं नाटकीयं वस्तु व्यज्यते । अतोऽलंकारेण वस्तुध्वनिः ॥ १ ॥


  1. M reads र्नः for र्वः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/४९&oldid=181847" इत्यस्माद् प्रतिप्राप्तम्