मुद्राराक्षसम्
प्रथमोऽङ्कः ।
अथेदं नाटकं साङ्गं लक्षणपुरःसरं व्याख्यायते । तत्र तावन्नान्दीपद्यद्वयम्--धन्या केयमित्यादि । अत्र श्रीमान्विशाखदत्तनामा महाकविः प्रारिप्सितस्य नाटकस्य निर्विघ्नपरिसमाप्तिप्रचयसिद्ध्यर्थं स्वेष्टदेवतागुणसंकीर्तनपूर्वकाशीर्वचनरूपं मङ्गलं शिष्यशिक्षायै नान्द्या निबध्नन्नर्थतः शब्दतश्च नाटकीयं वस्तु ध्वनयति । नान्दीलक्षणमग्रे वक्ष्यते । तत्राद्ये नान्दीपद्ये धन्या केयं स्थिता ते शिरसि इति जटाजूटकुहरनिलीनां दिव्ययुवतिरूपधारिणीं गङ्गामवलोक्य सेर्ष्यायाः शिवायाः शिवं प्रति प्रश्नः । परमप्रेयस्यहं वामाङ्गेऽवतिष्ठामि मत्तोऽप्युपरि उत्तमाङ्गे श्लाघ्ये स्थाने केयं स्थितेति ईर्ष्यास्फोटको धन्याशब्दः । किंच 'धन्या योषित्प्रलोभिका’ इति वचनादेवं प्रलोभनशीलायाः कथं वश्योऽसीति उपालम्भोऽपि ध्वन्यते । यद्वा । व्यतिरेकलक्षणया धन्याशब्दोऽधन्यावचनः । पूज्यस्य भर्तुर्या शिरः समारूढवती साधन्या अश्लाघ्या तस्याः कथं वश्योऽसीति ध्वन्यते । स्त्रियं तां निह्नोतुकाम: शिवः शिरःस्थामेव शशिनं कलाशब्दशिरस्कतया स्त्रीलिङ्गेन