सर्वार्थसिद्धिं निहतं श्रुत्वा शोचन्स राक्षसः ।
गत्वा मलयकेतुं तं प्रोत्साहयितुमूचिवान् ॥ ७६ ॥
अरूढमूलं मौर्यं द्रागुन्मूल्य सहसा बलात् ।
आनृण्यं गन्र्तुमिच्छामि स्वामिनां नाकवासिनाम् ॥ ७७ ॥
सर्वेऽस्मास्वनुरज्यन्ते पौरा गूढाभिसंधयः ।
तस्योपांशु वधायाप्ताः पुरे जाग्रति मामकाः ॥ ७८ ॥
सर्वोपायैर्विक्रमैश्च घटेमहि हिताय ते ।
जहि मौर्य सकौटिल्यं नन्दराज्यं तवास्तु तत् ॥ ७९ ॥
विषकन्यां योजयित्वा चाणक्येनैव पापिना ।
पिता ते मौर्यराज्यार्धहारी विनिहतश्छलात् ॥ ८० ॥
सर्वथैव निहत्यैनमुपायेन बलेन वा ।
त्वय्यासज्याखिलं राज्यमानृण्यं स्वामिनामयै ॥ ८१ ॥
इति प्रोत्साह्य बहुधा धीमान्साहसिकाग्रणीः ।
मौर्यं जेतुं म्लेच्छबलैः समनह्यत राक्षसः ॥ ८२ ॥
उपोद्धातोऽत्र वृत्त्तायाः कथाया एवमीरितः ।
अतः परं कविर्वस्तु नाटकीयं प्रयोक्ष्यते ॥ ८३ ॥
क्रूरग्रहः स इत्यस्मिन्पचे प्रस्तावनामुखे ।
उक्तमर्थं श्लेषदिशा कविरन्ववदन्मनाक् ॥ ८४ ॥
इत्युपोद्घातप्रकरणम् ।