पृष्ठम्:Mudrarakshasa.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
उपोद्धातः

घटमानोऽपि बहुधा दुर्जयं वीक्ष्य तद्वलम् ।
राक्षसश्छद्मना हन्तुं मौर्यं तेनाथ संदधे ॥ ६२ ॥

सर्वे नन्दाः पर्वतेन्द्रबलानिलसमेधिते ।
चाणक्यक्रोधदहने घोरे शलभतामयुः ॥ ६३ ॥

ततः स राक्षसः क्लिष्टः प्रक्षीणवलपौरुषः ।
निरुद्धवीवधासारप्रसारं क्षीणसंचयम् ॥ ६४ ॥

असुरक्षं पुरं पश्यन्नसुरक्षणतत्परः ।
नन्दवृद्धस्य सर्वार्थसिद्धेरेनं सुरङ्गया ॥ ६५ ॥

पुरान्निःसार्य निभृतं पौरैर्नन्दानुरागिभिः ।
पुरं मौर्यवशीकृत्य तत्सख्यमिव नाटयन् ॥ ६६ ॥

अभिचारकृतां मौर्यायादिशद्विषकन्यकाम् ।
तच्छद्मवित्पर्वतेशं कौटिल्योऽघातयत्तया ॥ ६७ ॥

स्वच्छद्म बोधयित्वा तत्सुतं मलयकेतुकम् ।
उपांशु भीषयित्वासैः पलाय्यत कूटधीः ॥ ६८ ॥

अराजकं वशीकृत्य कौटिल्यः कुसुमं पुरम् ।
नन्दानुरक्तपौराढ्यं सहसा न विवेश तत् ॥ ६९ ॥

पुरं प्रविष्टसप्याशु जिघांसू राक्षसो रिपुम् ।
सुहृद्भिर्दारुवर्माद्यैः कूटयन्त्राद्ययूयुजत् ॥ ७० ॥

कौटिल्यः कुटिलप्रज्ञस्तत्सर्वमरिकल्पितम् ।।
विषकन्याकूटयन्त्रगरदादि व्यबुध्यत ॥ ७१ ॥

क्रूरेण राक्षसेनैव ह्यस्मत्पक्षजिघांसया ।
विषकन्या पर्वतेशे योजितेति समादधत् ॥ ७२ ॥

वैरोचकं पर्वतेशभ्रातरं चकिताशयम् ।
अस्थापयज्जिगमिषुं शपथैश्छलगभितैः ॥ ७३ ॥

स्वापवादं निह्नुवानः पर्वतेशवधोत्थितम् ।
प्राग्दित्सितार्धराज्येन शठः प्रलोभयच्च तम् ॥ ७४ ॥

सर्वार्थसिद्धिरगमत्तपस्तप्तुं क्वचिद्वने ।
तत्रापि चारदृक्क्रूरः कौटिल्यस्तमजीघनत् ॥ ७५ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/४६&oldid=315814" इत्यस्माद् प्रतिप्राप्तम्