पृष्ठम्:Mudrarakshasa.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
मुद्राराक्षसे

त्वदुपासा जगन्नाथ सैवास्तु सम गोपते ।
आवयोरन्तरं नास्ति शव्दैरर्थैर्जगत्पते ॥ २ ॥
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।'

इत्यादीनि वचनानि द्रष्टव्यानि । गङ्गास्तुतौ च भगवत्पादैरनयोरभेदभक्तिप्रार्थना कृता----‘भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती' इति ॥

 इति श्रीत्र्यम्बकयज्वप्रभुवर्याश्रितढुण्डिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने सप्तमोऽङ्कः समाप्तिमगमत् ॥

बुधो दुण्ढिनन्ना जगति विदितो लक्ष्मणसुधी-
 मणेः श्रीमव्द्यासान्वयजलधिचन्द्रस्य तनयः ।
स्फुटं साङ्ग व्याख्यन्नयगुणविदरुयम्बकविभो-
 नियोगात्प्रौढार्थ बुधगणमुदे नाटकमिदम् ॥ १ ॥

 अत्र नाटके चतुर्थेऽङ्के कविरद्भुततरचाणक्यनीतिविषयकस्वसंविधानक्लेशमनुभाव्य प्रमोदभरमनुभवन्तः सरसा सहृद्या जगति दुर्लभा इति मन्वानः स्वयमेव स्वस्य नाटकीयसंविधानक्लेशं राक्षसवचनव्याजेन प्रस्तौति स्म---‘कार्योपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छन्' इत्यादिना । एवं नाटकीयं चतुःषष्ट्यङ्ग लक्षणानुसरणकविहृदयाभिमतार्थाविष्करणप्रयासोऽपि व्याख्यातुरनुमोदयितव्यः सहृदयैरित प्रार्थयामः ।

कर्तेदं नाटकस्याद्भुतरसविलसत्संविधानप्रवीणः
 क्लेशं चाणक्यनीतौ बहुविधमतनोल्लक्षणाढ्यैर्वचोभिः ।
तत्तल्लक्ष्ये तदङ्गानुसरणविषयावासमस्मद्विधानां
 राजश्रीत्र्यम्बकार्यानुमतिसुविहितं वीक्ष्य तुष्यन्तु सन्तः ॥

श्रीमद्विशाखकविवर्यकृतिर्मयैषा श्रीत्र्यम्बकानुमतितो विवृता यथावत् । श्रीस्वामिशैलवसतिर्भंगवान्विशाखो देवोऽनया मुदमुपैतु सनत्कुमारः ॥

बाणाग्न्यृतुमहीसंख्यामितेऽब्दे जयनामके ।
ढुण्ढिना व्याकृतं जीयान्मुद्राराक्षसनाटकम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/३०७&oldid=329466" इत्यस्माद् प्रतिप्राप्तम्