पृष्ठम्:Mudrarakshasa.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१९
सप्तमोऽङ्कः ।

म्लेच्छरुद्भि[१]ज्यमाना भुजयुगमधुना संश्रिता राजमूर्तेः
स श्रीमद्व[२] न्धुभृत्यश्चिरमवतु महीं पार्थिवश्चन्द्रगुप्तः ॥ १९ ॥

( इति[३] निष्क्रान्ताः सर्वे ।)

इति[४] सप्तमोऽङ्कः

इति[५] विशाखदत्तविरचितं मुद्राराक्षस नाटकं समाप्तम् ।


श्चन्द्रगुप्तस्य चाभेद्कथनानुभयाभेदरूपकमलंकारः । 'अयं हि धूर्जटिः साक्षाद्येन दुग्धाः पुरः क्षणात्' इतिवत् ॥ १९ ॥

 मङ्गलादीनि मङ्गलसध्यान मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषकाणि भवन्ति आयुष्मत्पुरुषकाणि चेत्यादिश्रीमहाभाष्यकारपतञ्जलिभगवत्पादानुशासनात्कविरत्र नाटक आदौ ‘धन्या केयं स्थिता ते शिरसि--' इत्यादिनान्दीयपद्यद्वयेन भगवतः सदाशिवस्य गुणसंकीर्तनरूपं मङ्गलं कृतवान् । मध्ये च शरद्वर्णनप्रस्तावे 'आकाशं काशपुष्पच्छवि-' इति पद्येन भगवतः शिवस्य ‘प्रत्यग्रोन्मेषजिह्माम्-' इति पद्येन भगवतो नारायणस्य च गुणसंकीर्तनरूपं मङ्गलं विहितवान् । नाटकसमाप्तौ च 'वाराहीमात्मयोनेः–'इति पद्येनादिवराहरूपधारिणो भगवतो महापुरुषस्य जगदुद्धरणगुणसंकीर्तनरूपं मङ्गलं विरचितवान् । अनेन मङ्गलाचरणेनोपास्योपासकभेदावस्थायामप्युपास्ययोहरिहरयोरभेदेनैवोपासनमखिलश्रेयः- प्राप्तिसाधनत्वेन श्रुतिस्मृतीतिहासपुराणप्रसिद्धमित्युक्तं भवति । तथा च श्रीमदाचार्यभगवत्पादैः श्रीविष्णुसहस्रनामभाष्ये हरिहरयोरभेदोपासनपराणि महाभारतादिवचनान्युदाहृतानि ॥

‘नामानि तव गोविन्द यानि लोके महान्ति च ।
 तान्येव मम नामानि नात्र कार्या विचारणा ॥ १ ॥


  1. रुद्रेज्यमाना B. E. N. H, which read पीवरसू for संश्रिता (E. reads पीवरा).
  2. श्रीमान्बन्धुः °E.; बन्धुवर्गः N; for °वश्चन्द्रगुप्तः E. reads वोवन्तिवम, N.वरन्तिवर्मा
  3. om. A.
  4. om, M. R. E; the whole इ...ङ्क om, A.
  5. A. P.read इति श्रीमन्महाराजपदभाजः पृथोः सूनुना महाकविना श्री ( om. P.)विशाखदत्तविरचिते मुद्राराक्षसनाम्नि (A, om. नाम्नि) नाटके निर्वहणं नाम (P.om. नि...म) सप्तमोङ्कः (ङ्कोयम् P.); A. Adds शुभं भूयात्सततमः M. reads मुद्राराक्षसं नाम नाटकं समाप्तम् । श्रीशारदायै नमः । श्रीविद्याशंकराय हृदये नमः ॥
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/३०६&oldid=329464" इत्यस्माद् प्रतिप्राप्तम्