पृष्ठम्:Mudrarakshasa.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
मुद्राराक्षसे -


द्रव्यं जिगीषुमधिगम्य जडात्मनोऽपि
 नेतुर्यशस्विनि पदे नियतं[१] प्रतिष्ठा ।
अद्रव्यमेत्य भुवि शुद्धन[२]योऽपि मन्त्री
 शीर्[३]णाश्रयः पतति कूलजवृक्षवृत्त्या ॥ १४ ॥


 चाणक्यः-अमात्य राक्षस, [४]इष्यते चन्दनदासस्य जीवितम् ।

 राक्षसः---भो विष्णुगुप्त, [५]कुतः संदेहः ॥

 चाणक्यः --अमात्य राक्षस, अगृहीतशत्रेण भवर्ता[६]नुगृह्यते वृषल इत्यतः संदेहः । तद्यदि सत्यमेव चन्दनदासस्य जीवितमिष्यते ततो गृह्यतामिदं शस्त्रम्[७]

 राक्षसः–भो विष्णुगुप्त, मा मैवम्[८] । अयोग्या वयमस्य विशेघतस्त्वया गृहीतस्य ग्रहणे ।


 द्रव्यमिति । द्रव्यं भव्य इति निपात्यते । द्रव्यं श्रेय:प्राप्तियोग्यं जिगीषुं जयोद्योगिनमधिगम्य जडात्मनो मन्दबुद्धेरपि नेतुरमात्यस्य यशस्विपदे स्थाने प्रतिष्ठा नियतमवश्यं भवति किमुतोदारबुद्धेरमात्यस्य । अयोग्यप्रभोराश्रयेण विशुद्धनयोऽपि मन्त्री अहमिव शीर्णाश्रयः सम्पतति नदीकूलगतवृक्ष इवेत्यर्थः ॥ १४ ॥

 एवं मनसि विचारयन्तं राक्षसं चन्द्रगुप्तसाचिव्याभ्युपगमाय प्रवणयति–अमात्येत्यादि । साचिव्यमनभ्युपगम्य तटस्थ्येन वृषलानुग्रहः अप्रयोजक इति भावः ।


  1. नियता B. N.
  2. For भु..-द्ध B. N. H. read तु विविक्त, E. भुवि चित्र,M. तु विशुद्ध.
  3. जीर्णा° R.; for वृत्या A, has रीत्या, G. तत्या?, E. त्योपा?
  4. B.N. read अपि before this.
  5. कः for कुतः B. N.; अत्र कः E; this and next speech are wanting in G.
  6. ता नानु. B. E. N. G. H.
  7. After this A.P. read राक्षसश्चिन्तयति ॥ चाण° । तपोवनं यामि (ततो विनयामि P.) विहाय मौर्यं । त्वां चाधिकारे ह्यधिकृत्य मुख्यम् ॥ त्वयि स्थिते वाक्यनि (वाक्पति P.) बद्धवुद्धौ भुनक्तु गामिन्द्र इवैष (व P.) चन्द्रः ॥ पुनस्तदेव पठति. The Alvar.Ms. reads राजनिवद्ध &c, in the third line.
  8. मा मैवम् twice A. M P For अस्य &c. B, N. read एतस्य ग्रहणे वि...स्य शस्त्रस्य; R. reads अयोग्य मयस्य (?) &c. as in text except परगृहीतस्य for गृहीतस्य।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९९&oldid=329191" इत्यस्माद् प्रतिप्राप्तम्