पृष्ठम्:Mudrarakshasa.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
सप्तमोऽङ्कः ।

 राक्षसः-( [१]स्वगतम् ।) योजितोऽनेन संबन्धः ।

 चाणक्यः ---( राजा[२]नमुपसृत्य । ) अयममात्यराक्षसः प्राप्त: प्रणमैनम् ।

 राजा--( राक्षसमुपसृ[३]त्य । ) आर्य, चन्द्रगुप्तः प्रणमति ।

 राक्षसः---( विलोक्य स्वगतम् । ) अये, [४]चन्द्रगुप्तः । य एष

बाल एव हि लोकेऽस्मि[५]न्संभावितमहोदयः ॥
क्रमेणारूढवान्राज्यं यूथैश्वर्यमिविref>र्य इव A. P</ref> द्विपः ॥ १२ ॥

( प्रकाशम् । ) राजन् , विजयस्व ।

 राजा–आर्य ।

जगतः किं न विजितं मयेति प्राविचिन्त्यताम्
गुरौ पाण्गुण्यचिन्तायामार्ये [६]चार्ये च जाग्रति ॥ १३ ॥

 राक्षसः-( [७]स्वगतम् ! ) स्पृशति मां भृत्यभावेन कौटिल्यशिष्यः । अथवा विनय एवैष[८] चन्द्रगुप्तस्य मात्सरस्तु मे विपरीतं कल्पयति । सर्वथा स्थाने यशस्वी चाणक्यः । कु[९]तः ।


 वाल एवेति । वाल्यमारभ्यैव राजलक्षणलक्षिततया महोन्नतो भविप्यतीति संभावित इत्यर्थः ॥ १२ ॥

 जगत इति । जगत इति शेपे षष्ठी । जगति किं न विजितसित्यर्थः ॥ १३ ॥

 कौटिल्यशिष्य इति । स्वाभाविक एवैष विनय इत्यर्थः ।


  1. आत्म G.; this speech is om. in R, E.; and in M. this speech and the two preceding ones are omitted.
  2. This speech is wanting in B.E N. G. H.; before अयम् R. has वत्स,
  3. .E om. राजा up to this. For च...ति B. E. N. read चन्द्रगुप्तोहम (E. om. अहसू ) भिवादथे (°यते ED.).
  4. अयम् before this B. E. N, G.
  5. लोकेन for लोकेस्सिन् B. E. N. H; N.H. read महोन्नतिः for" महोदयः
  6. चाग्रे A. P., कार्ये E, H.. त्वयि B. N.
  7. आत्मग. E., कौटिल्यशिष्यो before भृत्य° B. N.
  8. . om,एव; E. om. एष and से further on; कलयति for कल्पयति. B. N. M. विकल्पयाति E.
  9. Om. M. R, G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९८&oldid=329190" इत्यस्माद् प्रतिप्राप्तम्