पृष्ठम्:Mudrarakshasa.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९७
मुद्राराक्षसे


फलयोगमवाप्य सायकानां विधि[१]योगेन विपक्षतां गतानाम् । न[२] शुचेव भवत्यधोमुखानां निजतूणीशयनव्रतं प्रतुष्टयै ॥ १० ॥ अथवा ।

विगुणीकृतकार्मुकोऽपि जेतुं भुवि जेतव्यमसौ समर्थ एव स्वपतोऽपि ममेव[३] यस्य तत्रे गुरवो जाग्रति कार्यजागरूकाः ॥ ११ ॥

( चाणक्यमुपसृत्य । ) आ[४]र्य, चन्द्रगुप्तः प्रणमति ।

 चाणक्यः-संप[५]नास्ते सर्वाशिषः । तदभिवादयस्व तत्रभन्तस्मात्यशुम्ख्म ॥


 फलयोगमिति । विधियोगेन सुदैवप्रसादेन फलगं कार्यसिद्धिप्राप्तिमन्यत्र शल्ययोगं प्राप्यापि विपक्षतां विरोधितां गतानामिति विरोधाभासः। वीनां कङ्कानां पक्षा येषामिति बहुव्रीहिः। तेषां भावस्तत्तां गतानां विशिष्टकङ्पत्रवतामिति वा । इति विरोधपरिहारः । शुचेव विपक्षताप्राप्तिजातया शुचेवेति हेतूत्प्रेक्षा अधोमुखाना सायकानां निजतूणीशयनमेव व्रतं सर्वदा तत्रैवावस्थाननियमरूपं प्रतुष्टयै संतोषाय न भवति । ‘अनियोगेन विलक्षतां गतानाम् इति पाठे नियोगो युद्धादौ विनियोगस्तदभावः तेन लज्जितानामित्यर्थो बर्णनीयः ॥ १० ॥

 इत्येवं प्रकारेण लज्जित्वा पुनरपि समाधत्ते--विगुणीकृतेति । विगुणीकृतं ज्यारहितं प्रयोजनासाववच्च कृतं कार्मुकं यस्य । इयं वाञ्छितार्थप्राप्तिरानन्दः ॥ ११ ॥


  1. अनियोगेन for विधियोगेन. B. E, N. H. which read विलक्षताम् for विपक्षतामू.
  2. स्वशु. B. N. H. For the last word B. reads शयनव्रतप्रतिष्ठा; N.E.H. श...तस्य निष्ठा, G. तूणीरशयनम्रतप्रतिष्ठा, A, P. read शयनं निजप्रतुष्ट्यै-
  3. ममैव G. E.
  4. अये. G; च...सोभिवादयते. E
  5. वृषल before this B. E. N. G.; मम after ते E. after सर्वा G For तत्रभ G. E. have अत्रभवन्तम्. For अ...ख्यम् B. N. read अमात्यराक्षसं पैतृकस्तवायममात्यमुख्यः G. H. अमात्यराक्षसमयं च ते पैतृकोमात्यमुख्यः, E, अमात्यराक्षसमयं पैतृकोमात्यः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९७&oldid=329187" इत्यस्माद् प्रतिप्राप्तम्