पृष्ठम्:Mudrarakshasa.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
सप्तमोऽङ्कः।

 चाणक्यः-किं बहुना । एष[१] संक्षेपतः कथयामि । भृत्या[२] भद्रभटादयः स च तथा लेखः स सिद्धार्थक-

 स्तच्चालंकरणत्त्रयं स भवतो मित्त्रम् भदन्तः किल ।जीर्णाद्यानगतः स चापि पु[३]रुषः क्लेशः स च श्रेष्ठिनःसर्व मे-

(इ[४]त्यर्धोक्ते लज्जां नाटयति ।)

 वृषल[५]स्य वीर भवता संयोगमिच्छोनयः ॥ ९ ॥ तद[६]यं वृषलस्त्वां द्रष्टुमिच्छति ।

 राक्षसः-( स्व[७]गतम् । ) का गतिः एष पश्यामि ।

( ततः प्रविशति राजा विभवतश्च परिवारः । )

 राजा–( स्व[८]गतम् । ) विनैव युद्धादार्येण जितं दुर्जयं परबलमिति ल[९]जित एवासि | मम हि


 भृत्या इति । भवतो मित्रं किल अलीकमित्यर्थः । सर्वमिति । ‘नपुंसकमनपुंसकेन’ इत्येकशेषः । जातावेकवचनं च । ते भद्रभटायो भृत्याः स लेख: इत्याऐवजातीयं सर्वमुपायजातं वृषलस्य भवत्साचिव्यमिच्छोर्मम नयो नीतिप्रकार इति संक्षेपः । त्वत्संग्रहार्थमेतावान्मया नयः कुत इत्यर्थः । अतिशूरः साहसी भवान्विक्रमादिना मलयकेतुबन्निग्रहीतुं न शक्य इति ध्वनयितुं बीरेति संबोधनम् । इदं बीजवतां मुखाद्यर्थानां विप्रकीर्णानां ऐक्यार्थोपनयनं कार्यार्थोपसंहृतिः संहारो नामाङ् नवमम् ॥ ९ ॥


  1. B. N. omएप; M. E. G. read संक्षेपः for संक्षे...यामि.
  2. For भृत्या B. N. read ये ते.
  3. सचार्तपु B. N.
  4. सर्वोसौ मम B. E. N. H.; इति om. E. which adds न after क्त्ते; M. क्त्तौ; A. P. read नाटयन् for नाटयति.
  5. Before this B G. N. read खर्चासौ, G. चवें से; for संयोग P. has खाचिव्य and E reads योगमिच्छमितिः.
  6. तदेष. B. N. which read आगच्छति forइच्छति.B. B. N. G. add पश्यैनम् after it.
  7. आत्मग .E. B.N. after गतिः read प्रकाशम् । य एष &c M. agrees omitting य.
  8. B. N. read सेवकैरनुगस्यमनो before राजा and om. what follows; A. P. read च after, not before,परिवर.
  9. यत्सत्यं before this in B. B. N. which also read इव for एव; M. om मम हि; B. B. N. om हि.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९६&oldid=329137" इत्यस्माद् प्रतिप्राप्तम्