पृष्ठम्:Mudrarakshasa.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
मुद्राराक्षसे

 राक्षसः -त्वदीय[१]सुचरितैकदेशस्यानुकरणं किलैतत् ।

 चन्दनदासः -अमच्च, सव्वं वि[२] इमं पआसं णिफ्फलं करन्तेण तुए किं अणुचिट्टिदं । (क)

 राक्षसः- -सखे, खार्थ एवानुष्ठितः[३]। कृतमुपालम्भेन । भद्रमुख, निवेद्यतां दुरात्मने चाणक्याय ।

 वज्रलोमा--किं[४] त्ति । (ख)

राक्षसः---
दुष्कालेऽपि कलावसज्जनरुचौ प्राणैः परं रक्षता
 नीतं येन यशखिनातिल[५]घुतामौशीनरीयं यशः।
बुद्धानामपि चेष्टितं सुचरितैः क्लिष्टं वि[६]शुद्धात्मना
 पूजार्होऽपि स[७] यत्कृते तव गतः शत्रुत्वमेषोऽस्मि सः ॥ ५ ॥


 ( क ) अमात्य, सर्वमपीमं प्रयासं निष्फळं कुर्वता त्वया किमनुष्ठितम् ।

 ( ख ) किमिति ।


 सखे स्वार्थ एवेति । इदं त्वत्संरक्षणं ममात्मरक्षणादप्यभ्यर्हितं श्रेयस्करमिति भावः ।

 दुष्कालेऽपीति । शिबिना पुण्ये कृतयुगे तत्कृतमिति नात्र चित्रम् । पापे कलियुग ईदृशं कर्म कुर्वाणस्ततोऽप्यतिशयितो यश्चन्दन


  1. °दीयस्य B. N. G. which and E. om, last एतत्ः
  2. पि for वि G. E; णिफलं before इमं G; मे णिफ्फलं एदं (इमं E.) पआसं B. N. E; करणेण E.For तु...किं. B. E. N. H. read ण मेपिअं and add अमच्चेण after चिठ्ठिदं; G.reads तुए ण मे पिअं अणुचिठ्ठिदं.
  3. B. E, N. G. H. read सखे चन्दनदास (G.om. this) कृतमुपालम्भोन (G. has तत् and E. तत्र before कृतम् and both read कृत° after जीवलोकः) स्वार्थप्रधानो हि जीवलोकः (G. has °यं for हि , E.om.it) भद्रमुख अयमर्थों (om. G. E.) निवेद्यतां तावहुरात्मने (G. om तावत्) चाणक्याय; R.has दुरात्मने after चाणक्याय in our text ; R. M. read तत् before कृतमुपालम्भेन.
  4. B. N. have अध; G. E. जधा before किं.
  5. पि for ति N.; प्र B. N. E; प्रलपताम् (?) G.
  6. च शुद्धा° P. which also has वहा° for बुद्ध.°
  7. च for स P. and for गतः शत्रुत्वम् B.N गतो वध्यत्वम्
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२९१&oldid=329097" इत्यस्माद् प्रतिप्राप्तम्