पृष्ठम्:Mudrarakshasa.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
षष्ठोऽङ्कः।

अथ न[१] कृतकं तादृक्कष्टं कथं नु विभावये
 दिति मम मति[२]स्तर्कारूढा न पश्यति निश्चयम् ॥ २० ॥

( विचिन्व[३] ।)

नायं निस्त्रिंशकालः प्रथममिह कृ[४]ते घातकानां विघाते
 नीतिः कालान्तरेण प्रकटयति फलं किं तया[५] कार्यमत्र ।
औदासीन्यं न युक्तं प्रियसुहृदि' गते मत्कृतामेव[६] घोरां ।
 व्यापत्तिं ज्ञातमस्य[७] स्खतनुमहमिमां निष्क्रयं कल्पयामि ॥ २१॥

( इति निष्क्रान्ताः सर्वे ।)

( ष[८]ष्ठोऽङ्कः


आचरेदित्यर्थः । चिन्तनमपि तस्यानुचितं किमुताचरणमिति भावः । इत्यादितकरूढो न कमपि निश्चयं प्राप्नोमीत्यहो दुर्बोध्यश्चाणक्यनीतिमार्गे इत्यर्थः । स्वहस्तलेखात्स्वामिद्रोहरूपं कर्मातिकुत्सितं वाच। वक्तुमयोग्यमिति तादृक्कष्टमित्युक्तम् । ‘तादृग्लेखः(खं ?) इति कचित्पाठः ॥२०॥

 नायमिति । प्रथमं पूर्वं छलतः परमार्थतो वा घातकानां विघाते कृतेत्वरिततरं चन्दनदासघातनप्रसक्तिभयान्निस्त्रिंशधारणमनुचितम् । नीत्याचरणं तु शिरसि भयं दूरे तत्प्रतीकार इति न्यायेनानुपपन्नम्। सुहृद्विनाशोपेक्षणं तु कृतज्ञतादिमहदोषमापयेत् । अतश्चन्द्रगुप्ताय दासीभावेनात्मानं निष्क्रीयैव सुहृद्विमोचनं न्याय्यत्वेन गळे पतितमिति ज्ञातं निश्चितमिति भावः ॥ २१ ॥

 इति श्रीत्र्यम्बकप्रभुवर्ययज्वाश्रितदुण्ढिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने षष्ठोऽङ्कः समाप्तिमगमत् ।


  1. B. E. have ; R. . स न कृतम्; A. has नकृतके. For कष्टम् B.E.H. read लेखम्; P. G. omit it; N. has जातम् and कथं न विभा°B. has विलाप्तयेत्.
  2. चक्ररूढा N.
  3. तस्मात् after this B. N.
  4. गते N.
  5. तथा G,
  6. मस्कृते चातिघोराम् B. N.
  7. °मस्लिन् B. N; जातम् for ज्ञातम् before this n ED; for निष्क्रयम् R. reads निष्क्रियाभ्.
  8. B. N. read इति, P. इति सुह्मराक्षसनाटके before this
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८०&oldid=328797" इत्यस्माद् प्रतिप्राप्तम्