पृष्ठम्:Mudrarakshasa.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
मुद्राराक्षसे


पितॄन्पुत्राः[१] पुत्रान्परवदभिहिंसन्ति पितरो
 यदर्थं सौहार्दं सुहृदि च विमुञ्चन्ति[२] सुहृदः।
प्रि[३]यं मोक्तुं तद्यो व्यसनमिव सद्यो व्यवसितः
 कृतार्थोऽयं सोऽर्थस्तत्र सति वणिक्येऽपि वणिजः ॥ १७ ॥

 (प्रकाशम् ।) भद्र[४], ततस्तथाभिहितेन किं प्रतिपन्नं मौर्येण ।

 पुरुषः- अज्ज[५], तदो एवं भणिदेण चन्दउत्तेण पडिभणिदो सेट्टी बिह्णुदासो —‘ण मए अत्थस्स कार[६]णेण चन्दणदासो संजमितो, किंंदु पच्छादिदो अ[७]णेण अमच्चरक्खसस्स घरअणोत्ति


 (क) आर्य, तत एवं भणितेन चन्द्रगुप्तेन प्रतिभणितः श्रेष्ठी विष्णुदासः 'न मयार्थस्य कारणेन चन्दनदासः संयमितः, किंतु प्रच्छादितोऽनेनामत्यराक्षसस्य गृहजन इति बहुशो ज्ञातम् । तेनापि बहुशो याचितेनापि न समर्पितः ।


 पितॄनिति । तदिति सामान्ये नपुंसकं तद्योसद्यो इति अनुप्रासलोमेन प्रयुक्तमग्रे सोऽर्थ इति पुल्लिगेन निर्देशान्। तमर्थे व्यसनमिव स्त्रीधृतपानादिव्यसनमिव । तद्धि व्यसनिभिरतिप्रियतया दुस्त्यजमिति भावः । वणिक्त्वेऽपि वणिजामर्थलोभः सहजो दोष इति भावः ॥ १७ ॥


  1. N. reads भ्रातॄन् here and मनुजाः for पितरो; R. has this after पुत्रान् for' अभिहिंसन्ति B. reads अभिसंधाय
  2. B. N. समुज्झन्ति; G. घनमुज्झन्ति.
  3. प्रियं सद्यस्त्यक्तुं व्यसनिनि वयस्ये व्यवसितः B; तं संत्यक्तुं for सद्यस्त्यक्तुं Dhruva's edition. Our text agrees with G. except that G. has सद्यो for ' तत्रो and व्यवसितिः for व्यवसितः; E. has प्रियं सन्तं त्यक्तुम् &c. as in B; प्रियं तं संत्यक्तं व्यसनमिव यस्य व्यवसितः (सितिः ?) N.प्रियस्यार्थे योऽसौ व्यसनसहितस्य व्यवसितः H.
  4. Om R. P.सता before किम् B. N.
  5. A. P. om. अज्ज तदो; MLB, .om. तदो ; R. reads एव्वं M. R, om. भणिदेण-- «पडि G. reads भणिदो(?)for भणिदेण,E चन्दगुत्ते , B. N. on. सेट्टि and B. E.N. add जिण्णुदास before णमए.
  6. कालणे' B. N.; कारणे M. R. G.; कारणेन P; R. Reads अस्थस्य; B. E. N. add सेठी before संज° after wh1ch B. N. read चन्दनदासोः; R. G. E. read संजमिवे; for किंदु B. B. N. G. read किंतु-
  7. ‘दिदोणेण P; दिदूणेन R.; °इदो G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२७३&oldid=328600" इत्यस्माद् प्रतिप्राप्तम्