पृष्ठम्:Mudrarakshasa.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
मुद्राराक्षसे


[१] अलक्षितनिपाताः पुरुषाणां समविषमदशापरिणतयो भवन्ति कुतः ।

पौरैरङ्गलिभिर्नवेन्दुवदहं निर्दिश्यमानः शनै-
 र्यो राजेव पुरा पुरान्निरगमं राज्ञां सहस्रिर्व्रुतः
भूयः संप्रति सोऽह[२]मेव नगरे तत्रैव चन्ध्यश्रमो
 जी[३]र्णोद्यानकमेष तस्कर इच त्रासाद्विशामि द्रुतम् ॥ १० ॥

 अथवा येषां प्रसादादिदमासीत्त एव न स[४]न्ति । ( नाट्येन प्रविश्यावलो[५]क्य च ।) अहो जीर्णोद्यानस्यारमणीयता । [६] अत्र हि

विपर्यस्तं सौधं कुलमिव महारम्भरच[७]नं
 सरः [८]शुष्कं साधोर्हयभिचर्ह्रुदयमिव नाशेन सुहृदाम् ।
फलैर्हींना वृक्षा विगुणनृ[९]पयोगादिव नैया
 स्तृणैश्छन्ना[१०] भूमिर्मतिरिव कुनीतैरविदुषः ॥ ११ ॥


 अलक्षितनिपाता इति । अतर्कितागमाः ।

 विपर्यस्तमिति । महरम्भा रचना शिल्पं यस्य सौधस्य महारम्भारचना धर्मादिपुरुपार्थऋया यस्य कुलस्य । अविदुषो मूर्खस्य मतिः कुनीतैः कूटनयैः कपटोपदेशैरिव । अत्र जीर्णोद्यानवर्णनव्याजेन सौधकुलादीनामुपमया नन्दकुलविनाशस्तेन स्वहृदयपरिशोषः मलयकेतुयोगात्स्वनयवैफल्यं मलयकेतुसति विमोहकभागुरायणकुनीतिश्चेत्येते अर्थाश्च ध्वनिताः ॥ ११ ॥


  1. ( परिक्रम्य स्वगतम्) अहो before this B. N; this agrees, G. omitting स्वगतम्; and E keeps only अहो out of this. For अलक्षितनि° B. E. N. H. read अलक्षितोपनि ; B. N. H. Pead विभग between दशा and परिणतयो; G. only वि.
  2. सयमेवः P.; वध्यैः समः for न्ध्यश्रमः E.
  3. शीर्षोद्यानकमेकतस्कर इव. E.
  4. For न सन्ति. R. M. read संप्रति_'; P. G. read न संप्रति
  5. °श्य चिलो B. N.; स्यानभिर° for स्यारमणीय° B. N.°स्य रं G. P. ; °स्य निरभिर° E. H.
  6. तथाहि A. P.
  7. वचनम्. G.
  8. शुक्कुभ्. P.; सुहृदः for सुहृदम् A. H. B. N.
  9. विधि. B. D. E.
  10. तृणैश्छन्नः कुर्यां मति’ G. for ऊनीतैर° कृनीतेर N. G. R.कुनीतैव विदुषः H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६३&oldid=328245" इत्यस्माद् प्रतिप्राप्तम्