पृष्ठम्:Mudrarakshasa.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
षष्ठोऽङ्कः ।


शत्रुचश्चनपराभूत इति । (समन्ताद्वलोक्य सास्रम् ।) एतास्ता देव[१]पादक्रमणपरिचयपवित्रीकृततलाः कुसुमपुरोपकण्ठभूमयः । इ[२]ह हि

शार्ङ्गाकर्षाव[३]मुक्तप्रशिथिलकविकाप्रग्रहेणात्र देशे
 देवेनाकारि चित्रं[४] प्रजविततुरगं बाणमोक्षश्चलेषु ।
अस्या[५]मुद्यानराजौ स्थितमिह कथितं राजभिस्तैर्विनेत्थं
 संप्रत्यालोक्यमानाः कुसुमपुरखुवो भूयसा दुःखयन्ति ॥ ९ ॥

 [६]तत्क्क नु गच्छामि मन्दभाग्यः। (विलोक्य ) भवतु । दृष्टमेतीज्जीर्णोद्यानम् । अ[७]त्र प्रविश्य । कुतश्चिच्चन्दनदासप्रवृत्तिमुपलप्स्ये


गुप्तसंधानप्रसक्तिर्वरम्, न तु शत्रुणा चाणक्येन वञ्चनपराभूत इत्ययशो वरम् । वञ्चनेनैवंभूतेन पराभूततया सुहृत्तमचन्दनदासविपदुःखानुभवो न वरमिति भावः ।

 शाङ्गकर्मीबमुक्त इति । शार्ङाकषावमुक्तः अत एव प्रशिथिलः कविकाप्रग्रहः खलिनवल्गा यस्य अत एव प्रज विततुरगं यथातथा चलेपु लक्ष्येषु स्वयमपि तुरंगवेगवशाद तिचलेन देवेन पूर्वं नन्देन बाणमोक्षः कृतश्चित्रमाश्चर्यमिति चललक्ष्यवेधनकौशलमुक्तम् । स्थितं कथितमिति भावे क्तः । तैस्तदादिभिः राजभिर्नन्दैर्विना संप्रतीत्थं शून्या जीर्णाश्च विलोक्यमाना भूयसा बाहुल्येन दुःखयन्ति दुःखवन्तं । कुर्वन्ति । णाविट्षुवद्भावेन मतुपो लोपः ॥ ९ ॥


  1. एतास्तवद्देवस्य पदचङ्कमण B. N.; पराक्र° in text G, परिचय om. in M. For तलाः B. reads रथ्याः.
  2. R. M. om. इह हि
  3. शाङ्कर्षवि°. A.; शर्ङ्गा कर्षावि°. P ; शाङ्गीकृष्याव G.; शार्दूज्याकृष्टिमु°B. H.; शार्दूज्याघातमुक्ताः E;चापाकृष्टेर्वि°. N. For कचिका R. M. read कालिका.
  4. पूर्वम्. R. G. N. M. For तुरगम् N. reads तुरगे, B. तुरगान्.
  5. R. reads पङ्क्त्तौ. noting राजौ as a variant
  6. om. B. N.
  7. ‘मनु E, दसस्य वृत्तान्त° for दखप्रवृति' B. N.E. ( omitting स्य ); दासस्य प्रवृ. R. M. and G. (which also omits चित् out of कुताश्चत् ).
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६२&oldid=328220" इत्यस्माद् प्रतिप्राप्तम्