पृष्ठम्:Mudrarakshasa.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
मुद्राराक्षसे


तस्मिन्हते तनयमस्य तथाप्यसिद्धि-
 दैवं[१] हि नन्दकुलशत्रुरसौ न विप्रः ॥ ७ ॥

अहो विवेकशून्यता म्लेच्छ[२]स्य । कुतः ।
यो नष्टानपि बीज[३]नाशमधुना शुश्रूषते स्वामिन
 स्ते[४]षां वैरिभिरक्षतः कथमसौ संधास्यते राक्षसः ।
[५]तावद्धि विवेकशून्यमनसा म्लेच्छेन नालोचितं
 दवेनोपहतस्य बुद्धिरथ वा स[६]र्वा विपर्यस्यति ॥ ८ ॥

 तदिदानीमपि तावदरातिह[७]स्तगतो विनश्येन्नतु राक्षसश्चन्द्रगुप्तेन सह सं[८]दधीत । अथवा मम काममसत्यसंध इति वरमयशो न तु


र्थसिद्धिप्रतिष्ठापनार्थं कृतः प्रयत्नः । अनन्तरं चाणक्येन राज्यार्धपरिपणनप्रलोभनेन मत्तो विभेद्य स्वायत्तीकृते छझन विषकन्यया तस्मिन्पर्वतके हतेऽस्य तनयं मलयकेतुमधिकृत्य कृतः प्रयत्न इत्यनुषङ्गः। दैवमेव प्रबलम् किमनेन ब्राह्मणमात्रेण कर्तुं शक्यमित्यनादरेण विप्र इत्युक्तम् ॥७॥

 यो नष्टानिति । बीजनाशमिति णमुलन्तं समूलं नष्टानित्यर्थः। अक्षतः दृढगात्रः। स्पष्टमन्यत् ॥ ८ ॥

 संदधीतेति । पूवोंक्तार्थपरित्यागेनासत्यसंधो जात इति अयशः मम कामं वरं प्रशस्तं इत्यर्धाङ्गीकारे । अथवाशब्दः कदाचिद्दैवगत्या चन्द्र-


  1. दैवो R.
  2. B. N. add मलयकेतोः after this.
  3. जीवनाशम°. B. E. N.
  4. °सोयम् N; for °रक्षतः B. has °रक्षितः.
  5. For एतावद्धि M. R. read तावबुद्धिः B. E. H. इथं वस्तु ; N. इथं बद्ध. Forशून्यमनसा B. has मूढमतिना
  6. पूर्वम् B; सर्वम् G. H. पूर्वसत्यम्. E and N. reads सर्वात्मना क्षीयते
  7. हस्तं गतो नाशं गच्छेन्न राक्षसः &c. E.;हस्तगतो वनं गच्छेद्वक्षसो न &c B.; M. N agree with our text omitting तु
  8. संधिं कुर्यात्.G; संधिं कुर्यादिति B.E N;P. reads अथवा कामं समासत्यसंध इति वरमयशो नतु शत्रोर्वञ्चनापरिभूत इति; N.वरमसमर्थ इति से यशो न स्वनायासेन शत्रुण पराभूत इति; R G. अथवा सकाममसत्यसंध इति मे यशो न त्वनायालेन शत्रुणा पराभूत इति. M. agrees with R. G. Reading न for स after अथवा and परम् for वरम्; B. reads अथवा कामससत्यसंध इति चरमग्रशो न पुनः शत्रुवचनपरिभूतिः; E. agrees reading न शत्रुणा पराभूत इति instead of न पुनः &c.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६१&oldid=328219" इत्यस्माद् प्रतिप्राप्तम्