पृष्ठम्:Mudrarakshasa.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
षष्ठोऽङ्कः।


( ततः प्रविशति यथानिर्दिष्टः स[१]शद्धो राक्षसः । )

राक्षसः-( [२]सास्त्रम् ।) कष्टं भोः, कष्टम् ।
उच्छि[३]न्नाश्रयकातरेव कुलटा गोत्रान्तरे श्रीर्गता
 तामेवानुगता गतानुगतिकास्त्यक्तानुरागाः प्रजाः ।
आप्तैरप्यनवाप्तपौरुष[४]फलैः कार्यस्य धूरुज्झिता
 किं कुर्व[५]न्त्वथवोत्तमाङ्गरहितैरङ्गैरिव स्थीयते ॥ ५ ॥
अपि च ।
पतिं त्यक्त्वा देवं[६] भुवनपतिगुच्चैरभिजनं
 गता छिद्रेण[७] श्रीर्वुषलमविनीतेव वृषली ।
स्थिरीभूता चासिन्किमिह [८] करवाम स्थिरमपि
 प्र[९]यत्नं न येषां विफलयति दैवं द्विषदिव ॥ ६ ॥
मया हि
देवे गते दिवमतद्विध[१०]मृत्युयोग्ये
 शैलेश्वरं तमधिकृत्य कृतः प्रयत्नः ।


 उच्छिन्नाश्रय इति । आप्तैरप्यस्माभिर्दैवोपःहतपौरुषफलैरुद्योगः परित्यक्त: अथ अतः परं कर्तव्यप्रयत्नाभावात्किं वा कुर्मः । वाशब्दो भिन्नक्रमः उत्तमाङ्गरहितैरङ्गै शवैरिवेति यावत्स्थीयते स्थातव्यं प्रसक्तमित्यर्थः ॥ ५ ॥

 पतिमिति । उच्चैरभिजन: वंशो यस्य । छिद्रेण कपटेन स्थिरं दृढमपि येषां नः प्रयत्नं द्विषदिव शत्रुवदैवमेव द्विषद्रुत्वा विफलयति चेत्कि कुमैः ॥ ६ ॥

 देवे गत इति । अतद्विधः तस्वरूपानर्हः मृत्युयोगो यस्य तस्मिन्देवे नन्दे दिवं गते सति शैलेश्वरं पर्वतकमधिकृत्यावलम्ब्य सर्वा-


  1. सशक. B.
  2. सबाष्पम्. B.
  3. उच्छन्न'. B. B.उरसन्न° H; गोत्रान्तरम्.B. N. Hबलैः . जस्थिता forडक्षिता.EB. . G.
  4. बलैः E. which also reads ; reads
    भूरू° for धूरु.
  5. किं कुर्मस्त्वथवो P. G; कुर्मस्य R; for अद्भरिव B. N. read नागैश्चिरम्; G. BE. E. नाद्भश्चिरम्
  6. दैवम्, N.
  7. त्रेण श्रीधृषलमिव नीचेव
    वृपली G; गता स श्रीःशत्रं H.
  8. किमह. B.
  9. प्रयातुम् B. E.
  10. योगे A. P.;
    योगम् R.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६०&oldid=328182" इत्यस्माद् प्रतिप्राप्तम्