पृष्ठम्:Mudrarakshasa.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मुद्राराक्षसम् ।


षष्ठोऽङ्कः ।

( ततः प्रविशत्यलंकृतः सह[१]र्षः सिद्धार्थकः ।)

सिद्धार्थकः---

[२]अदि जलदणीलो केसवो केसिघादी
 [३]अदि' अ जणदिट्टीचन्दमा चन्दउत्तो ।
[४]जअदि जअणकज्जं जाव काऊण सव्वं
 पडि[५]हदपरपक्खा अज्जचाणक्कणीदी ॥ १॥ (क)


( क )जयति जलनीलः केशवः केशिघाती
 जयति च जनदृष्टिचन्द्रमाश्चन्द्रगुप्तः।
जयति जयनकांर्य यावत्कृत्वा च सर्वं
 प्रतिहतपरपक्षा आर्यचणक्यनीतिः ॥ १ ॥


 इत्थं मलयकेतुनिग्रहरूपमवान्तरकार्यनिर्वहणं कृतम् । अतः परं राक्षससंग्रहणरूपप्रधानकार्यनिर्वाहर्थं चन्द्रगुप्तलक्ष्मीस्थैर्यरूपस्य महाफलस्य च सिद्धयर्थं षष्टसप्तमावङ्कावारभ्येते—-जअदीति । जयतीति । कृतकार्यतया चन्द्रगूप्तेन भूषणादिनालंकृतेन सिद्धार्थकेनेष्टदैवतराजचाणक्यनीतीनां जय आघोष्यते । जयत्यनेनेति जयनं सैन्ययुद्धादि । करणे ल्युट् । जयनेन जयकारणेन सेनादिनैव यत्कार्यं तद्यावत्सर्वं स्वयमेव कृत्वा चाणक्यनीतिर्जयतीत्यन्वयः। सेनासन्नाहयुद्धादिकमनपेक्ष्य नीत्यैव सर्वं राज-


  1. Om. M. R. G.
  2. जयदि G.; जयदु E.N. reads जलदवण्णो; E. reads केशवो केशि° for केसवो केसि° and G. केसिघाई.
  3. जयदि E; जअइ G; for अ B. N. read सु; E. reads सुयन for अ जण; सुअण H.
  4. जयदि P. E.; for कज्जं B. E. N. G. H. read सज्जं; G. also has अजण for जअण; for जाव B.N. G. read जाअ ;E. जाय; R. एव्व; M. R. read कादूण and B. E. N. G.H. read सेण्णं for सव्वं
  5. परिप' A.; पडिप° P.;पडिव° B. E. N.; for णीदी
    G. reads णीई.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२५१&oldid=327852" इत्यस्माद् प्रतिप्राप्तम्