२५८
मुद्राराक्षसे
संप्रत्याहितगौरवेण भवता मत्राधिकारे रेिपौ प्रारब्धाः प्रलयाय मांसवदहो विक्रेतुमेते वयम् ॥ २१ ॥ राक्षसः-( स्वगतम् ।) अयमपरो गण्डस्योपरि स्फोटः । ( प्रकाशम् । कर्णौ पिधाय ।) शान्तं * पायं शान्तं पापम् । नाहं पर्वतेश्वरे विषकन्यां प्रयुक्तवान् ।
मलयकेतुः—केन तहिं व्यापादितस्तातः । राक्षसः दैवमत्र प्रष्टव्यम् । मलयकेतुः-(सक्रोधम् ।) दैवमत्र प्रष्टव्यम् । न क्षपणको
जीवसिद्धिः ।
राक्षसः--(स्वगतम् ।) कथं जीवसिद्धिरपि चाणक्यप्रणिधिः।
हन्त, रिपुभिर्मे हृदयमपि स्वीकृतम् ।
तादृशमारभ्यते इति पूर्व जीवसिद्धिना उपक्षिप्तस्य उपजापदुर्विकल्पस्या- यमुद्रार इत्यवधेयम् ।। २१ ।।
अयमपर इति । मर्मस्थानव्रणस्योपरि व्रणान्तरमित्यर्थः । दैवमत्रेति । चाणक्यनामागृहीत्वा दैवमिति वदन्स्वस्य परदोषानावि-
ष्करणरूपं महामनस्त्वं सूचितवान् ।
१ रिपोः B. E. N. P. H.; रिपो. G; in the next line B. E. read प्रणयाय for प्रलयाय; पुनराममांसवद° H. २ Om. A.P.; आत्मग° E.P. reads अपि for अपरो. For स्फोटः B. has विस्फोटः and N. विस्फोटक. ३ R. om. क...य' and R. E. read शांतं पापम् only once. ४ B. N. read नाहं विषकन्यामारोपित- वानपापोहं पर्वतेश्वरे; E. H. have simply अपापोहं पर्वतेश्वरे P. adds अपापो- हम् after प्रयुक्तवान्. ५ द्रुष्ट° A. P.६ om B. N.दैवमत्रैव प्र°. R.; दैवमत्र द्र A.; कथमत्र दैवं प्र°. E, P. om. दै...व्यम् ७ आत्मग° E.; °क्यस्य प्र° for 'क्यप्र . G; B. E. N. read हृदयमपि मे रिपुभिः स्वीकृतम् .