पृष्ठम्:Mudrarakshasa.pdf/२४३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
मुद्राराक्षसे

अथवा क: संदेहः ॥

मुद्रा तस्य कराङ्गुलिप्रणयिनी सिद्धार्थकस्तत्सुहृ- त्तस्यैवापरलेख्यसूचितमिदं लेख्यं प्रयोगाश्रयम् ।

सुव्यक्तं शकटेन भेदैपटुभिः संधाय सार्द्ध परै- र्भर्तृस्नेहपराङ्मुखेन कृपणं प्राणार्थिना चेष्टितम् ॥ १५ ॥

मलयकेतुः--(विलोक्य ) आर्य, अलंकारत्रयं श्रीमती यद- नुप्रेषितं तदुपगतमिति यल्लिखितं तन्मध्यात्किमिदमेकम् । (निर्वण्र्या- त्मगतम् ।) कथं तातेन धृतपूर्वमिदमाभरणम् । (प्रकाशम् ।) आर्य, कुतोऽयमलंकारः ।

राक्षसः---वणिग्भ्यः ऋयादधिगतः ॥

मलयकेतुः--विजये, अपि प्रत्यभिजानासि भूषणमिदम् ॥

प्रतीहारी--(निर्वर्ण्य सबाष्पम् ।) कुमार, कहं ण पञ्चभिजा- यामि । १०इदं सुगीहीदणामधेएण पव्वदीसरेण धारिदपुव्वं । (क)


( क ) कथं न प्रत्यभिजानामि । इदं सुगृहीतनामधेयेन पर्वतेश्वरेण धारि- तपूर्वम् ॥


यशश्च परिमृज्य चलेषु नश्वरेष्वर्थेषु पुत्रदारादिषु च लुब्धः स्यादित्यर्थः १४ मुद्रेति । प्रयोगाश्रयं कूटप्रयोगरचितमित्यर्थः । कृपणं दीनं कृत्यं चेष्टितं व्यवसितम् ॥ १५ ॥


१ पत्रम्. B. N. H. २ टुना. B. N. ३ भर्त्तुः A. R M. B.; पणप्रा for "पूणं प्रा P. ४ B. E. N. G. om. this; P. om. आर्यः; R. G. E. read अलंकरण for अलंकार; °मतो for °मता B. N. ५ B. N. add आर्येण here; °देकं किमिदम् for °त्किमिदमेकम् BN. ६ कष्टम्. E.; A. P. om इदम्. ७ N. om. द; R, M. read °गतम्. ८°नाति भवती भू°. B. E. N. ९ E. has सबाष्पं निर्वण्र्य; कधं for कहं E. and G, which also reads पच्चभिजाणिस्सं, E, has पञ्चभियाणामि.; P,°भिजाणा; B. N. °भिआणिस्सं°, १० इमं क्खु B. N.; इदं ता (?) खलु : इमं G.; एदं P. which also reads सुगिही ; E, reads °नामधेयेण;R. णाम- हेयेण; G णामधेयेण; °व्वदेस° for व्वदीस R; for पुव्वं., B. N. read पूर्वं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४३&oldid=206951" इत्यस्माद् पुनः प्राप्तिः