पृष्ठम्:Mudrarakshasa.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
पञ्चमोऽङ्कः

 भागुरायणः---[१]ईदृशस्य विशेषतः कुमारेणात्सगात्रावतार्य प्रसादीकृतस्येयं परित्यागभूमिः ॥

 ल्यकेतुः--[२]वाचिकमप्यार्येणास्माच्छ्रोतव्यमिति लिखितम् ।

 राक्षसः- [३]कुतो वाचिकं कस्य वाचिकम् । लेख एवासदीयो न भवति ॥

 मलयकेतुः--इयं तर्हि [४]कस्य मुद्रा ।

 राक्षसः -–[५]कपटमुद्रामुत्पादयितुं शक्नुवन्ति धूर्ताः ।

 भागुरायणः-- कुमार, सम्यगमात्यो विज्ञापयति । [६]भद्र सिद्धाथेक, केनायं लिखितो लेखः ॥

( सिद्धार्थको [७]राक्षससुखमवलोक्य तूष्णीमधोमुखस्तिष्ठति । )

 भागुरायणः-[८]भद्र, अलं पुनरात्मानं ताडयितुस् । कथय ।


 कुमारेत्यादिना एवं वदता राक्षसेन समाहितेऽपि सोल्लुण्ठनं तदन्यथयति भागुरायण:--ईशस्येत्यादिना ।

 अस्मादिति । वाचिकमप्यस्माच्छ्रोतव्यमित्यार्येण लिखितमिति व्यवहितेनान्वयः ।


  1. B. N. read भो अमात्य; E. अमात्य before this; and B. E. G. add आभरणविशेषस्य after this; स्व for आत्म B. E. N; दत्तस्यायं for .. स्ययं B.N.
  2. प्याप्ततमात्.B. N. R.; सिद्धार्थकात् for अस्मात् M. R. G E. H; आर्येण at the end of the speech B. N.; तत्कथं शत्रोः प्रयोगः E.
  3. कुमार before this E; M. has वा after this; 11. M G. have चा वाचि further on; E.agrees and adds इति after वाचि° and अयम् after: एव:; B. N. read कुतो वाचिकं कस्य वा लेखः । अयमेवास्मदीयो & c.
  4. R. Mr. add चा after कस्य and R. read इह for इयं at the beginning of the speech,
  5. B.N, reaद् कुमार before this; B. E, N. add अपि after मुद्राम्; R, M, add न before शक्नुवन्ति .
  6. E. has the following as Malayalksetu's,
  7. सस्य मु° G. E;" समास्ते for °खस्तिष्ठति G. E.
  8. B. N. om. this; A. P.E. read पुनरलम् for अलं पुनः and B, N, read ताडयित्वा for: ताडयतुम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४०&oldid=327690" इत्यस्माद् प्रतिप्राप्तम्