पृष्ठम्:Mudrarakshasa.pdf/२३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
मुद्राराक्षसे

 राक्षसः–भद्र सिद्धार्थक, अपि सत्यम् ।

 सिद्धार्थकः---( लज्जां [१]नाटयन् ।) एवं अतिताडिअन्तेन मए णिवेदिदं । (क)

 राक्षसः–[२]अनृतमेतत् । ताज्यमानः पुरुषः किमिव न ब्रूयात् ॥

 मलयकेतुः—[३] सखे भागुरायण, दर्शय लेखम् । वाचिकमेष भृत्यः कथयिष्यति ॥

 भागुरायणः–अमात्य, अयं ले[४]खः ।

 राक्षसः—( [५]वाचयित्वा । ) कुमार, शत्रोः प्रयोग एषः ॥

 मलयकेतुः–लेखस्याशून्यार्थमार्येणेदमप्याभरणमनुप्रेषितम्[६] । तत्कथं शत्रोः प्रयोग [७]एषः ।

 राक्षसः-( आभरणं [८]निर्वर्ण्य । ) कुमारेणैतन्मह्यमनुप्रेषितम् । मयाप्येतत्कस्मिंश्चित्परितोषस्थाने सिद्धार्थकाय दत्तम् ।


 ( क ) एवमतिताड्यमानेन मया निवेदितम् ।


  1. 'यति G. after which B. A. read एदं; E इ;इमं, G. N. एअं and B. E.M. om. अति; B. E. read ताडी.
  2. B. E. N. G. read कुमार before this; B. E. N. om. पुरुषः and B. N. also om. इव further on and E. has. इति for इव.
  3. B. EE. N. om. सखे; G. om. भागु; B. N. read चायमस्मै स्वभृ° for एष भृ; E. has अप्ययमेवीस्य भृ., P. has कथयति.
  4. B.N. read क्ष्रुत्वा लेखमवलोकयन् । स्वस्ति यथास्थाने कुतोपि कोपि कमपि प्रुषमवग इति वाचयति
  5. B. N. G. A. P. om. this; B. N, read कुमार twice.
  6. येणेदमाभरणजातं प्रेषितमू. N; अपि om, in B. G; before अनुप्रे° in M. R.B. N. add इति after this,
  7. B. N. read एषः स्यात् । इत्याभरणं दर्शयति.
  8. R. notes निर्दिश्य as variant here. G. has मम for मह्यम्; A.. reads कुमार नैतन्मया प्रोपितम् । कुमारेणैतन्मह्यमनुप्रेपितम्; B. N. read कुमार नैतन्मयानुप्रेषितम् । एतद्धि कुमारेण मह्यं दत्तं मया & c.; E, reads कुमार नेतन्मयानुन पितम् । मया &; for अप्यैतत्कस्मिंश्चित्. B. N. read च; E. reads पारितोपिक for परितोप.; G, 1eads प्रदत्तम् for दत्तम्,
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३९&oldid=327689" इत्यस्माद् प्रतिप्राप्तम्