पृष्ठम्:Mudrarakshasa.pdf/२३७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
मुद्राराक्षसे

 राक्षसः--कुमार, [१]प्रयाणे प्रतिविधानमनुतिष्ठता मया कुमारादय सुपालम्भोऽधिगतः।

 मलयकेतुः--[२]आर्य, प्रयाणे कथं प्रतिविहितमिति श्रोतुमिच्छामि ।

 राक्षसः-- [३]कुमार एवमादिष्टा अनुयायिनो राजानः । (‘प्रस्थातव्यम्-’(५।११) इति पूर्वोक्तं[४] पठति ।)

 मलयकेतुः-([५]स्वगतम् ) कथं य एव मद्विनाशेन चन्द्रगुप्तमाराधयितुमुद्यतास्त एव मां [६]परिवृण्वन्ति । ( प्रकाशम् ।) आर्य, अस्ति कश्चिद्यः कुसुमपुरं [७]प्रति गच्छति तत आगच्छति वा ।

 राक्षसः-- [८]अवसितमिदांनीं गतागतप्रयोजनम् । अल्पैरहोभिर्वयमेव [९]तत्र गन्तारः ।

 मलयकेतुः--([१०]स्वगतम् ) विज्ञायते । ( प्रकाशम् ।) यद्येवं ततः किमायेणायं सलेखः पुरुषः [११]प्रेषितैः।


 कुमार प्रयाणे प्रतिविधानमनुतिष्टतेतीदमजानानस्योत्तरम् ।

 परिवृण्वन्तीति । कौलूताद्याः पञ्च राजान इत्यर्थः ।

 विज्ञायत इति । वयमेवात्र चन्द्रगुप्त निग्रहीतुं गन्तार इति राक्षसस्य ऋजुराशयो मलयकेतुनान्यथा गृहीतः । चन्द्रगुप्तसाचिव्यार्थं गन्तार इति विज्ञायत इति ।


  1. °णं M. R.प्रयणप्रति° H.
  2. अमत्य B. N.
  3. Om A. P;B. N. G. read कुमारस्यानु° for अनु° ; E, कुमारानु°.
  4. मित्यादिश्लोकं पुनः B. N.; प्रस्थातव्यं ..सहमगधगणैरिति पठति G; प्रस्थातव्यं पुरस्तादिति पूर्वोक्तं श्लोकं E.
  5. आत्मग° E. after which B. N. add विज्ञायते.
  6. वृणन्ति P. which like R. om प्रकाशम्।
  7. Om. G. E; E. Om. ततः.
  8. B. E. N. read कुमार here; ननु पञ्चपैर for अल्पैर° B. N. कतिपयैर° E.
  9. Om. P; E. reads यास्यामः for गन्तारः
  10. आत्मग° E; E. has अयि before यद्येवं; B. N. read तत्किमयमार्येण°E.ततः किमयमार्येणा', M. R. किमार्येणायं; A. and P.om. स and visarga सलेखः
  11. कुसुमपुरं प्रस्थापितः B. E.H
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३७&oldid=327586" इत्यस्माद् प्रतिप्राप्तम्