पृष्ठम्:Mudrarakshasa.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
पञ्चमोऽङ्कः ।


( परि[१]क्रम्य ।)

 प्रतीहारी-अमच्च, अअं कुमारो । उपसप्पदु णं अमच्चो । (क)

 रक्षसः-( वि[२]लोक्य । )अयं, कुमारस्तिष्ठति । य एष

पादाग्रे दृशमवप्वाय निश्चला[३]ङ्गीं
 शून्यत्वादपरिगृहीततद्विशेषाम् ।
वक्त्रेन्दुं वहति क[४]रेण दुर्वहाणां
 कार्याणां कृतमिव गौरवेण नम्रस् ॥ १३ ॥

( उपसृत्य ।) विज[५]यतां कुमारः ।

 मलयकेतुः--आर्य, अभिवादये । इदमासनमास्यताम् ।

( राक्षसस्तथा क[६]रोति ।)

 मलयकेतुः--आ[७]र्य, चिरदर्शनेनार्यस्य वयमुद्विग्नाः ।


 ( क ) अमात्य, अयं कुमारः । उपसर्पत्वेनममात्यः ।


ति । उक्तमर्थमर्थान्तरन्यासेन द्रढयति—गतिरिति । सोच्छ्रायाणामुन्नतानां गतिरवस्था अनुकूलमवश्यभावित्वेनोचितं पतनं कलयति । ‘पतनान्ताः समुच्छ्रया:’ इति भावः। ‘मतिः’ इति पाठेऽप्ययमेवार्थः । सर्वदा समुच्छ्रयाद्भीताः पतनमेव चिन्तयेरन्मतिमन्त इत्यर्थः ॥ १२ ॥

 पादाग्रे इति । शून्यत्वान्मनोवृत्तिराहित्यादज्ञाततद्विषयविशेषामित्यर्थः ॥ १३ ॥

 इदं मलयकेतोः स्वविषयकदौर्मनस्यमजानन्राजकार्यगौरववैयश्रयेण गृहाति--आर्य, चिरदर्शनेति । चिरदर्शनेन दर्शनविलम्बकरणेनोद्विग्नाः कार्यत्वरया व्यग्रा इति वाक्यार्थः। त्वद्दर्शनमिदानीमस्माकमरूंतुदमिति गूढम्।


  1. प्रती° परिक्र' B. N. R; अयं for अअं E.कुमालो for कुमारो R; B. N. add चिट्ठदि तां; G. E. चिट्ठदि; उवस° for उपस° R; G . om णं.
  2. नाव्ये नावलो° B. E. N. G; अये after this in B. E. N.
  3. °लन्तीं B. N ; निखल° E.
  4. परे° A P.
  5. Twice in B. N.
  6. उपविशति B. N.; उपविष्टः E.
  7. अमात्य B. N. which read चिरमद° for चिरद°; E. has चिराद.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३६&oldid=327585" इत्यस्माद् प्रतिप्राप्तम्